Sbg 6.16 scms

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।6.16।।एवं योगाभ्यासनिष्ठस्याहारादिनियममाह द्वाभ्याम् यद्भुक्तं सज्जीर्यति शरीरस्य च कार्यक्षमतां संपादयति तदात्मसंमितमन्नं तदतिक्रम्य लोभेनाधिकमश्नतो न योगोऽस्ति। अजीर्णदोषेण व्याधिपीडितत्वात्। नचैकान्तमनश्नतो योगोऽस्ति अनाहारादत्यल्पाहाराद्वा रसपोषणाभावेन शरीरस्य कार्याक्षमत्वात्।यदु ह वा आत्मसंमितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति इति शतपथश्रुतेः। तस्माद्योगी नात्मसंमितादन्नादधिकं न्यूनं वाश्नीयादित्यर्थः। अथवापूरयेदशनेनार्धं तृतीयमुदकेन तु। वायोः संचारणार्थं तु चतुर्थमवशेषयेत्।। इत्यादियोगशास्त्रोक्तपरिमाणादधिकं न्यूनं वाश्नतो योगो न संपद्यत इत्यर्थः। तथातिनिद्राशीलस्यातिजाग्रतश्च योगो नैवास्ति। हे अर्जुन सावधानो भवेत्यभिप्रायः। एकश्चकार उक्ताहारातिक्रमसमुच्चयार्थः। अपरोऽत्रानुक्तदोषसमुच्चयार्थः। यथा मार्कण्डेयपुराणेनाध्मातः क्षुधितः श्रान्तो न च व्याकुलचेतनः। युञ्जीत योगं राजेन्द्र योगी सिद्ध्यर्थमात्मनः।।नातिशीते न चैवोष्णे न द्वन्द्वे नानिलान्विते। कालेष्वेतेषु युञ्जीत न योगं ध्यानतत्परः।। इत्यादि।