Sbg 6.14 scpur
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Purushottamji
।।6.14।।प्रशान्तात्मा भक्तिरसाभिनिविष्टचित्तः विगतभीःब्रह्मचारी
श्रुत्यादिदुरापचरणरेणुभगवत्प्राप्तिसन्देहरहितः। ब्रह्मचारिव्रते स्थितः भगवदर्थेन्द्रियनिग्रहवान्। तादृशः सन् मनः संयम्य सर्वतः आकृष्य वशे कृत्वा मच्चित्तो मय्येव चित्तं यस्य। मत्परः अहमेव परः पुरुषार्थरूपो यस्य। एतादृशो भूत्वा युक्तः मद्योगस्थ आसीत तिष्ठेत्।