Sbg 6.13 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।6.13।।चित्तैकाग्र्योपयोगिनीं देहादिधारणां दर्शयन्नाह सममिति द्वाभ्याम्। काय इति देहमध्यभागो विवक्षितः। कायश्च शिरश्च ग्रीवा च कायशिरोग्रीवं मूलाधारादारभ्य मूर्धाग्रपर्यन्तं सममवक्रं निश्चलं धारयन् स्थिरः। दृढप्रयत्नो भूत्वेत्यर्थः। स्वकीयं नासिकाग्रं संप्रेक्ष्य च। अर्धनिमीलितनेत्र इत्यर्थः। इतस्ततो दिशश्चानवलोकयन्नासीतेत्युत्तरेणान्वयः।