Sbg 6.10 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।6.10।।एवं योगारूढस्य लक्षणमुक्त्वेदानीं तस्य साङ्गं योगं विधत्ते योगीत्यादिना। स योगी परमो मत इत्यन्तेन ग्रन्थेन। योगीति। योगी योगारूढः आत्मानं मनो युञ्जीत समाहितं कुर्यात्। सततं निरन्तरं रहस्येकान्ते स्थितः सन्नेकाकी सङ्गशून्यः यतं संयतं चित्तमात्मा देहश्च यस्य निराशीर्निराकाङ्क्षो निराहारो वा अपरिग्रहः परिग्रहशून्यश्च।