Sbg 5.9 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha 8 5.9।।एवमर्जुनस्य परिपृच्छतः साक्षात्प्रश्नस्योत्तरमुक्तम् अथ तदाशयविदो भगवत आभिप्रायिकं वाक्यमुत्तरसङ्गत्यर्थं दर्शयति यत इति। युक्तोऽत्र योगनिष्ठः तत्त्ववित् तदन्तर्गतात्मतत्त्वविज्ञानवान्। तदाह एवमात्मतत्त्वविदिति।पश्यन् श्रृण्वन् स्पृशन् जिघ्रन् अश्नन् इति चक्षुश्श्रोत्रत्वरघ्राणजिह्वाख्यज्ञानेन्द्रियव्यापाराः।गच्छन् प्रलपन् विसृजन् गृह्णन् इति पादादिकर्मेन्द्रियव्यापाराः। तत्रविसृजन् इति पायूपस्थव्यापारसङ्ग्रहः। उक्तं चपायूपस्थे विसर्गार्थमिन्द्रिये तुल्यकर्मणी। विसर्गे च पुरीषस्य विसर्गे चाभिकामतः इति।स्वपन् श्वसन् उन्मिषन् निमिषन् इति तुप्राणव्यापाराः। स्वापस्य तमोवृत्तित्वेऽपि प्राणाधीनत्वं सिद्धम्।उन्मिषन् निमिषन् इति तु व्यानाख्यप्राणव्यापारः।श्वसन् इति तु प्राणसंज्ञकप्राणविशेषव्यापारः।गृह्णन् इति पाणिव्यापारपरोऽपि अपानव्यापारस्यापि तन्त्रेण ग्राहकः। तदपानेनाजिघृक्षत्तदावयत्स य एषोऽन्नस्य ग्रहो यद्वायुः ऐ.उ.3।10 इति। एवं विभागज्ञापनाय श्रोत्रादीनि ज्ञानेन्द्रियाणि वागादीनि च कर्मेन्द्रियाणि प्राणाश्चेत्युक्तम्। इन्द्रियशब्दोऽत्र सर्वेन्द्रियप्रवृत्त्यादिहेतुतया प्राणसंवादादिषु प्रसिद्ध मुख्यप्राणमजहल्लक्षणया लक्षयतीति तात्पर्यम्।इन्द्रियार्थेषु इत्येतदपि तथैव लक्षकमिति व्यञ्जनायस्वविषयेष्वित्युक्तम्। नन्विन्द्रियप्राणेष्वर्कर्तृषु कर्तृत्वाध्यासः स्वस्याकर्तृत्वबुद्धिश्च भ्रान्तिरेव स्यात् आत्मन एव कर्तृत्वस्यकर्ता शास्त्रार्थवत्त्वात् ब्र.सू.2।3।33 इत्यादिभिःस्थापितत्वादित्यत्राहज्ञानैकस्वभावस्येति। कर्मणां मिथ्यात्वानुसन्धानमिह परोक्तमयुक्तम्इन्द्रियाणीन्द्रियार्थेषु वर्तन्ते इत्यस्याप्यननुसन्धेयत्वप्रसङ्गात्। मुक्तस्य स्वेच्छागृहीतेन्द्रियादिव्यवच्छेदायोपाधीनामप्यौपाधिकत्वव्यञ्जनाय चकर्ममूलशब्दः।ईदृशमिति पुण्यपापरूपमित्यर्थः। अत्रतत्त्ववित् इति निरुपाधिकस्वरूपपरत्वात्कार्यकारण 13।20 इत्यादाविव न चिदचिद्व्यापारविभागोक्तिः।