Sbg 5.6 scang
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Abhinavgupta ।।5.6।।संन्यासस्त्विति। तु शब्दः अवधारणे भिन्नक्रमः। योगरहितस्य संन्यासमाप्तुं दुःखमेव प्राङ्नीत्या कर्मणां दुःखसंन्यासत्वात् (S N दुःसंन्यासत्वात्)। योगिभिस्तु सुलभमेवैतत् इत्युक्तं प्राक्।