Sbg 5.5 scjaya
Sanskrit Commentary By Sri Jayatritha ।।5.5।।योगस्य ज्ञानसाधनत्वे प्रमिते भवेदेतत् तदेव कथं इत्यत उक्तमेकमपीति तदनुपपन्नम् उभयोर्मध्ये सम्यगेकमप्यास्थितः फलं विन्दत इति योजनायां द्वयोः साफल्यमात्रमुच्यते। एकमपि सम्यगास्थितः उभयोः फलं विन्दत इति पक्षे तु द्वयं किञ्चित्फलं प्रति स्वतन्त्रं साधनमुच्यते। पक्षद्वयेऽपि न प्रकृतोपयोग इत्यत आह एकमपी ति। एवमनुपयोगेऽपि भगवानेव स्ववाक्याभिप्रायमाह स ग्राह्य इत्यर्थः। अनेनापि योगस्य ज्ञानसाधनत्वे किं प्रमाणमुक्तं इत्यतो व्याचष्टे योगिभिरपी ति। तरति शोकमात्मवित् छां.उ.7।1।3 इत्यादिना यज्ज्ञानफलं मोक्षाख्यं प्रमितं तत्तावद्योगिभिरपि प्राप्यत इत्युच्यते अपाम सोमम् ऋक्.6।4।11 इत्यादिना। तत्र विचार्यम् किं द्वयमपि स्वतन्त्रमुक्तिसाधनम् उत समुच्चितम् अथवैकं साक्षान्मोक्षसाधनम् अपरं तत्साधनत्वेनेति न प्रथमद्वितीयौ। नान्यः पन्थाः श्वे.उ.6।15 इत्यादिविरोधात्। तृतीयेऽपि चिन्त्यं किं कस्य साधनमिति। तत्र न तावज्ज्ञानं कर्मसाधनत्वेन मोक्षहेतुःन किञ्चिदन्तराधाय इत्यादिविरोधात्। अतः परिशेषाद्योगिभिरपि ज्ञानद्वारा ज्ञानफलं प्राप्यत इति सिद्ध्यति। तथा च योगस्य ज्ञानसाधनत्वं सिद्धमित्यर्थः। अत्रयोगिभिः इति वदता योगशब्दो धर्मिणामुपलक्षकोऽयं आद्यजन्तो वेति सूचितम्।