Sbg 5.4 scmad

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhavacharya ।।5.4।।सन्न्यासो हि ज्ञानान्तरङ्गत्वेनोक्तःन तस्य तत्त्वग्रहणाय भाग.5।11।3 इत्यादौ। अतः कथं सोऽवम् इत्यत आह साङ्खयोगाविति। उभयोरप्यन्तरङ्गत्वेनाविरोधः। अग्निमुग्धो ह वै धूमतान्तः स्वं लोकं न प्रत्यभिजानाति।मा वः पदव्यः पितरस्मदास्थिता या यज्ञशालासनधूमवर्त्मनाम् इत्यादि काम्यकर्मविषयमिति भावः। ये त्वन्यथा वदन्ति ते बालाः।