Sbg 5.1 scpur
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Purushottamji
।।5.1।।सन्न्यासं कर्मयोगं च श्रीकृष्णोक्तं धनञ्जयः।
श्रुत्वा संशयमापन्नः पुनः प्रश्नं चकार ह।।
अर्जुन उवाच सन्न्यासमिति। हे कृष्ण सदानन्द आनन्दैकदानयोग्य कर्मणां सन्न्यासं त्यागंन मां कर्माणि 4।14 इत्यारभ्यकृत्वाऽपि न निबध्यते 4।22 इत्यन्तं शंससि पुनःयोगमातिष्ठ 4।42 इत्यनेन योगं च शंससि। एतयोरुभयोर्मध्ये एकं सुनिश्चितं निर्धारितं ब्रूहि। च पुनरेतयोरुभयोः सकाशादेकमन्यद्यच्छ्रेयः श्रेयोरूपं भक्तिरूपं भवेत् तन्मे मम त्वदीयस्य सुनिश्चितं संशयरूपं ब्रूहि।