Sbg 5.14 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।5.14।।ननु कर्तृत्वमित्येतत्प्रागुक्तान्न विशिष्यत इत्यत आह न चे ति। दर्शनादिकं कुर्वन्नेव नैव किञ्चित्करोमीति मन्यत इत्युक्तम्। तर्हि मिथ्या ज्ञानी प्रसज्येतेत्याशङ्कानिरासाय परमेश्वरप्रेरितः कुर्वन् कारयन् वस्तुतः स्वातन्त्र्येण न करोति न कारयति चेत्यनेनाहेत्यर्थः। अस्य जीवविषयत्वे प्रभुरित्येतदसम्भवीत्यत आह प्रभुर्ही ति। अनेन विभुरित्युपपादितप्रायम्।