Sbg 4.9 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।4.9।। जन्म मायारूपं कर्म च साधूनां परित्राणादि मे मम दिव्यम् अप्राकृतम् ऐश्वरम् एवं यथोक्तं यः वेत्ति तत्त्वतः तत्त्वेन यथावत् त्यक्त्वा देहम् इमं पुनर्जन्म पुनरुत्पत्तिं न एति न प्राप्नोति। माम् एति आगच्छति सः मुच्यते हे अर्जुन ।।नैष मोक्षमार्ग इदानीं प्रवृत्तः किं तर्हि पूर्वमपि