Sbg 4.7 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।4.7।।कदा इति प्रश्नस्योत्तरमुच्यत इत्याह जन्मकालमाहेति। युगानियमस्य वक्ष्यमाणत्वात्यदा यदा इति वीप्सा युगान्तर्वर्तिकालानियमपरेत्यभिप्रायेणाह न कालेति। जीववत्पुण्यापुण्यविपाककृतो वा व्यवस्थितस्वसङ्कल्पकृतो वा मन्वन्तरमहाकल्पादिरूपो वा कालनियमो नास्तीत्यर्थः। प्रमाणतः स्वरूपतश्च ग्लानिप्रकारसूचनाय बाह्यधर्मधर्मैकदेशव्यवच्छेदाय चवेदेनोदितस्येत्यादिविशेषणम्।वेदेनोदितस्य कर्तव्यस्य इति धर्मलक्षणमप्युक्तं भवति। अधर्मशब्दे नञो विरोधिविषयत्वमभिप्रेत्योक्तंतद्विपर्ययस्येति। ततश्चावैदिकागमोदितस्य वर्णाश्रमादिव्यवस्थारहितस्य तत एवाकर्तव्यस्येति पूर्वोक्तप्रकारवैपरीत्यं फलितम्। धर्मग्लानेरधर्मोत्थानस्य च तुलाग्रनमनोन्नमनवत्परस्पराविनाभावित्वं च दर्शितम्। तदेत्यत्रापियदायदा इत्येतत्प्रतिनिर्देशरूपत्वाद्वीप्साऽनुसन्धेया। धर्मस्य ग्लानिमपि न सहे किं पुनर्विच्छेदं इति ग्लानिशब्दतात्पर्यम्। एवमधर्मस्योद्गममात्रमपि न सहे किमुत शाखानुशाखतां इत्यभ्युत्थानशब्दाभिप्रेतम्।अहं सृजामि इत्यत्रापेक्षणीयान्तरादर्शनात्अहमेव स्वसङ्कल्पेनेत्युक्तम्। तेन कालस्याप्यधिष्ठातुस्तस्य कालपरतन्त्रत्वं परिहृतं भवति।आत्मानं सृजामि इत्येतन्न तावत्स्वरूपविषयं तस्य नित्यत्वात् आत्माश्रयादिप्रसङ्गाच्च। नापि जीवविषयं तस्य प्रकरणासङ्गतत्वात्। नाप्याद्यविग्रहविशिष्टस्वात्मविषयं तस्यापि रूपस्य नित्यत्वात् अतोऽवतारविग्रहविशिष्टस्वात्माऽत्रआत्मानम् इति निर्दिश्यत इत्यभिप्रायेणोक्तंउक्तप्रकारेणेति।