Sbg 4.7 scdhan
Sanskrit Commentary By Sri Dhanpati ।।4.7।।एवं सर्वज्ञः सर्वेश्वरोऽशरीरी त्वं कदा किमर्थं देहवानिव जात इव प्रतीयस इत्यत आह यदेति। ग्लानिर्हानिः। अभ्युत्थानं वृद्धिः। भरतवंशोद्भवत्वेन धर्महानिं कर्तुमयोग्योऽसीति सूचयन्नाह भारतेति। त्वमपि धर्मसंस्थापनायैभरतवंशेऽवतीर्णोऽसीति गूढाभिप्रायेण वा संबोधयति भारतेति। मायया आत्मानं स्वं सृजामि जन्मवन्तमिव प्रदर्शयामि। आत्मानं देहं सृजामि नित्यसिद्धमेव सृष्टमिव प्रदर्शयामीति केचित्। तन्न। परमेश्वरस्य देहः किं तस्मादन्य उतानन्यः। नाद्यः। तस्यासत्त्वाद्यापत्त्या सच्चिदादिरुपत्वस्वीकारविरोधात्। द्वितीयेऽपि स देहः किं परिच्छिन्न उतापरिच्छिन्नः। आद्ये ईश्वरस्य नित्यमेव परिच्छिन्नत्वं स्यात्। तथाच देहस्य नित्यसिद्धत्वं वदद्भिः परमेश्वरस्यासत्त्वसंपादनेन मूलोच्छेद एव संपादितः। न द्वितीयः। अपरिच्छिन्नः पुनरवयवसमूहः परिमिताकारो देह इति वदतो व्याघातात्।