Sbg 4.6 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।4.6।।अथ प्रकारादिप्रश्नत्रयोत्तरमनन्तरश्लोक इत्याह अवतारेति। अजाव्ययशब्दाभ्यां प्रकृतिपुरुषयोरिव स्वरूपतो धर्मतश्च विकारा न सन्तीत्युच्यते अजाव्ययशब्दौ कर्मकृतजन्ममरणनिवृत्तिपरौ वा तेन हेयप्रत्यनीकत्वमुक्तं भवति।भूतानामीश्वरोऽपि इति कल्याणगुणाकरत्वाप्रच्युतिरुपलक्ष्यते। यद्वा अजशब्देन स्वरूपतः शरीरद्वारा च जन्मयुक्ताचित्क्षेत्रज्ञाभ्यां व्यावर्तनम्।अव्ययात्मा इत्यात्मशब्दस्य स्वभावपरतया नञोत्ऽयन्ताभावपरतया च कदाचिज्ज्ञानसङ्कोचादिमतो मुक्ताद्व्यावृत्तिः।ईश्वरशब्देन नित्यासङ्कुचितज्ञानेभ्यो नित्यमुक्तेभ्यो व्यवच्छेदः।अव्ययात्मा इत्यत्रापि पूर्वोत्तरवत्अपि सन् इत्यनुषञ्जनीयम्। अत्र च पूर्वार्धेन तृतीयचतुर्थपादाभ्यां च प्रश्नत्रयस्य क्रमात्परिहारः। आदिशब्देनेश्वरत्वोपलक्षितसर्वज्ञत्वसत्यसङ्कल्पत्वावाप्तसमस्तकामत्वादीनि गृह्यन्ते।सर्वमिति न कस्यचिदपि स्वभावलेशस्य हानिरिति भावः। परमेश्वरसम्बन्धि पारमेश्वरं परमेश्वरत्वप्रयुक्तमित्यर्थः।अपि सत् इत्यस्य वर्तमाननिर्देशस्य तात्पर्यमाह अजहदेवेति। एतेन तत्तदवतारेषु तासु तास्ववस्थासु च पारमेश्वरस्वभावस्य सत एव स्वेच्छाया तिरोधानमात्रमिति सूचितम् तथा चाहुःगुणैः षड्भिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ ततस्तिस्रस्तेषां त्रियुगयुगलैर्हि त्रिभिरभुः। व्यवस्था या चैषा ननु वरद साऽऽविष्कृतिवशात् भवान् सर्वत्रैव त्वगणितमहामङ्गलगुणः।।वरदराजस्तवे16 इति। अवतारेषु हि परमेश्वरत्वं व्यपदिश्यते।ईशन्नपि महायोगी म.भा.5।68।14कृष्ण एव हि लोकानां म.भा.2।38।23व्यक्तमेष महायोगी परमात्मा वा.रा.6।1।11 इत्यादिभिः। नात्र प्रकृतिशब्देनप्रकृतिं स्वामवष्टभ्य विसृजामि 9।8 इत्यादिष्विव त्रिगुणा प्रकृतिरुच्यते अवतारेष्वपि तद्विग्रहस्य त्रिगुणोपादानत्वाभावात्। यथोक्तंन भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः म.भा.न तस्य प्राकृता मूर्तिर्मांसमेदोस्थिसम्भवा वा.पु.पू.34।40व.पु.14।41। इति। अतोऽत्रावतारोपयुक्तान्या प्रकृतिरुच्यत इत्यभिप्रायेणाह प्रकृतिः स्वभाव इति।प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे इति नैघण्टुकाः। विग्रहस्यापिनित्यालिङ्गा स्वभावसंसिद्धिः र.ब्रा. इत्येकायनश्रुत्यनुसारेण निरुपाधिकस्वासाधारणविशेषणत्वात् स्वभावशब्देनोपादानम्। गोबलीवर्दन्यायाच्चात्र विग्रहाख्यस्वभावविशेषपरता स्वभावपर्यायप्रकृतिशब्देनापृथक्सिद्धिलाभेऽपिस्वां इति निर्देशो जीवसाधारणत्रिगुणप्रकृतिव्यवच्छेदार्थ इत्यभिप्रायेणोक्तं स्वमेवेति।अन्तरधिकरणभाष्येऽप्येतद्व्याख्यातंस्वमेव स्वभावमास्थाय न संसारिणां स्वभावमित्यर्थः इति। प्रकृतिशब्दस्यात्र विग्रहपरत्वंअधिष्ठाय इत्यनेनसूचितं स्वातन्त्र्यं च दर्शयति स्वेनैव रूपेणेति। यद्वास्वमेव स्वभावं इत्याद्येकवाक्यं सङ्कलितार्थपरम् तदधिष्ठायेत्येतदन्तं पूर्वार्धस्यार्थःस्वेनैव रूपेण इति तु तृतीयपादस्यस्वेच्छया इति चतुर्थपादस्य। अस्यां योजनायां प्रकृतिशब्दोऽवतारोपादान भूतदिव्यविग्रहमेवाह।अवतारविग्रहोपादानभूतप्रकृतेर्बहुश्रुतिसिद्धतामाह स्वस्वरूपमिति।स्वरूपं ब्रह्मणोऽपरम् इति प्रयोगात् स्वरूपशब्दोऽत्र विग्रहपरः। आदित्यवर्णं तमसः परस्तात् इत्यनेनाप्राकृतत्वं स्वासाधारणनिरतिशयदीप्तियुक्तत्वं च सिद्धम्। तत्प्रकरणे च देशविशेषवर्तित्वनित्यसूरिसेव्यत्वलक्ष्मीपतित्वादिकमपि भाव्यम्।क्षयन्तम् इत्यत्र रजश्शब्दो मूलप्रकृतिविषयः न तु लोकविषयःतमसः परस्तात् इत्यनेन तुल्यार्थत्वात्। रजोगुणकत्वाच्च रजश्शब्देनोपादानम्। व्याप्तस्य देशविशेषेक्षयन्तम् इति निवासवचनाद्विग्रहवत्त्वं सिद्धम्। एवं परमपदनिलयनित्यविग्रहसद्भावः श्रुतिद्वयेन दर्शितः। तस्यैव विग्रहस्यावतारदशां दर्शयति य एष इति।आदित्यवर्णंहिरण्मयः इति च एक एव वर्णः प्रतियोगिभेदाधीनप्रातिकूल्यानुकूल्याभ्यां मुखभेदेन निर्दिश्यते। यथाहुर्द्रमिडाचार्याःहिरण्मय इति रूपसामान्याच्चन्द्रमुखवत् इति। यद्वा हिरण्यविकारत्वव्यवच्छेदार्थं द्रमिडभाष्यम्। तत्रमयूरकण्ठच्छविशुद्धहेम इति शिल्पशास्त्रानुसाराच्छ्यामत्वसिद्धिः। अथवा स्वेच्छया तत्र तत्र रूपभेदेऽपि न दोषः युगादिभेदे पर्यायतः सितरक्तादिविकल्पितवासुदेवादिव्यूहरूपभेदवत्। तस्यैव हृदयान्तर्वर्तित्वे श्रुतिमुदाहरति तस्मिन्निति।मनोमय इति विशुद्धेन मनसा प्रचुरः ग्राह्य इत्यर्थः। आभ्यां श्रुतिभ्यामुपासनस्थानविशेषस्थितिर्दर्शिता। कारणवाक्येऽपि तस्य सद्भावं दर्शयति सर्व इति।विद्युत इतिपदं विद्युद्वर्णादित्यन्यत्र व्याख्यातम्। शान्त उपासीत छां.उ.3।14।1 इति पूर्वोक्तमुपासनंस क्रतुं कुर्वीत इत्यनूद्य तच्छेषतया विधीयमानेषु पारमार्थिकेषु गुणेषु विग्रहस्य सहपाठं दर्शयति भारूप इति। भास्वररूप इत्यर्थः। माहारजनं वासः इत्येषा श्रुतिः शारीरके व्याख्याता तस्य ह वा एतस्य पुरुषस्य रूपं यथा माहाराजनं वासः बृ.उ.2।3।6 इत्यादिनाऽऽकारविशेषं चाभिधाय इति। सर्वासु चासु श्रुतिषु विलक्षणस्थानविशिष्टत्ववर्णविशेषपुरुषशब्दादिभिः पूर्वोपात्तपुरुषसूक्तवाक्यैकार्थत्वं सिद्धम्। षष्ठीसमासे स्वस्वामित्वलक्षणः सम्बन्धोऽत्र विवक्षित इत्याह आत्मीययेति।माया वयुनं ज्ञानम् इति निघण्टूपादानम्। स्वेच्छावतरणप्रकरणे स एवार्थ उचित इति भावः। निघण्टुसिद्धमर्थं तन्मूलभूताभियुक्तप्रयोगेण द्रढयति तथा चेति।मायया वेत्ति इति निर्देशादियं माया निघण्टुसिद्धं ज्ञानमेव परप्रसिद्धमायायास्तत्त्वार्थप्रकाशकत्वाभावादिति भावः। एतेन प्रकृतिशब्दस्यात्र त्रिगुणात्मकप्रकृतिविषयत्वं मायाशब्दस्य मिथ्यार्थपरत्वं चशङ्करोक्तं प्रत्युक्तम्।आत्ममायया इत्यस्य न परमार्थतो लोकवदिति व्यवच्छेदश्चायुक्तः अन्येषामपि जन्मनस्तन्मते मिथ्यात्वाद्यविशेषात्। फलितं वक्तुमाह आत्मीयेन ज्ञानेनेति। ज्ञानमात्रस्य कथमवतारहेतुत्वम् तथा सति सर्वदावतारप्रसङ्गादित्यत्राह आत्मसङ्कल्पेनेत्यर्थ इति।


श्लोकस्य पिण्डितार्थं विशदयति अत इति।अपहतपाप्मत्वादीत्यनेन दहरविद्यासुबालोपनिषत्प्रभृतिषु निर्दोषत्वमङ्गलगुणाकरत्वप्रतिपादकानां वाक्यानां स्मारणम्।समस्तकल्याणगुणात्मकत्वमित्यादिनासमस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्गः। इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ वि.पु.6।5।84 इत्यादि स्मारितम्। ईश्वरस्वभावः सर्वोऽप्युभयलिङ्गत्वेन सङ्गृह्यत इत्यभिप्रायेणोक्तंसर्वमैशं स्वभावमिति। स्वमेव रूपमित्यादिनासमस्तशक्तिरूपाणि तत्करोति जनेश्वरः। देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया वि.पु.6।7।70 इत्यादि भगवत्पराशरवचनं स्मारितम्। अजत्वश्रुत्या स्मृतिरियं बाध्येतेत्यत्राह तदिदमाहेति। अजायमानत्वजायमानत्वोक्त्या व्याहतत्वादन्यपरेयं श्रुतिरित्यत्राह इतरेति।अजायमानः इति सामान्यनिषेधोबहुधा विजायते इति विशेषविधानसन्निधानात्सङ्कुचितविषयः। अतो विरोधे शान्ते तात्पर्यान्तरं न कल्प्यम्। न चेदं बहु स्याम् छां.उ.6।2।3तै.आ.6।2 इतिवज्जगद्रूपेण बहुभवनम् तस्य धीराः परिजानन्ति योनिम् इत्यनन्तरवाक्यैर्मुमुक्षूणामत्यन्तोपकारकावताररहस्यज्ञानस्यैव वक्तुमुचितत्वात् अस्य च तदैकार्थ्यादिति भावः। सत्यमिथ्यात्वाभ्यां विरोधपरिहारशङ्कां प्रतिक्षेप्तुंप्रकृतिं स्वामधिष्ठाय इत्यस्य विग्रहपरत्वे मायाशब्दस्य ज्ञानपरत्वे च हेत्वन्तरमाहबहूनीति।वेद सृजामिदिव्यम् इति शब्दैर्जन्मनो बुद्धिपूर्वत्वेच्छामात्रकृतत्वदिव्यत्वादीनि प्रतीयन्ते। मायादिशब्दस्याविद्यादिपरत्वे तु तदखिलं विरुध्येत। नह्यत्र जन्मशब्दो जन्मप्रतिभासवाची न च प्रध्वस्तपर्यायो व्यतीतशब्दो बाधपरः न च मायागृहीतस्य सर्ववेदित्वम्नापि मिथ्याभूते सृष्टिशब्दः न च त्रिगुणप्रसूतस्य दिव्यत्वमिति भावः।