Sbg 4.5 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।4.5।।रूपान्तरेणोपदिष्टवानित्यवतारस्वरूपतः संशयं परिहरन् श्रीभगवानुवाच बहूनीति। मे जन्मान्यवतारा बहवो व्यतीताः। अनेनावताराणां हेतुभूतमात्मानमवतारिणं सर्वदा सर्वांशपरिपूर्णमुपदिशति। तान्यहं जानामि न तु त्वं इति नित्यसिद्धज्ञानादिशक्तिमत्त्वं स्वस्योपदिष्टम्।तव च जन्मानि इति नराद्यवताराभिप्रायेणोक्तम्। दृष्टान्तवद्वेति केचित्। अनेन सर्वज्ञासर्वज्ञत्वाभ्यां जीवेश्वरयोरेवं भेदतः स्वरूपं ब्रह्मवाद इति दर्शितम्।