Sbg 4.4 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।4.4।।प्रसङ्गात्स्वस्वभावोक्तिः गी.सं.8 इति सङ्ग्रहश्लोकानुसारेणाह अस्मिन् प्रसङ्ग इति। कर्तव्यतादृढीकरणार्थकथाप्रसङ्गे इत्यर्थः।भगवदवतारयाथात्म्यं अकर्मवश्यत्वादिरूपम्।यथावदिति प्रातिभासिकत्वादिप्रतिक्षेपकप्रमाणोपपत्तिपूर्वकमित्यर्थः। परावरशब्दाभ्यां न दैवमानुषत्वरूपजातिवैषम्यमुच्यते तस्योपदेशविरोधित्वाभावात् देवानामपि देवत्वेन च कृष्णस्य विदितत्वात् जन्मशब्दस्य जननवाचितया साक्षाज्जातिवाचकत्वाभावात् आदाविति कालविरोधस्य च व्यक्तमुक्तत्वात्बहूनि मे व्यतीतानि 4।5यदा यदा हि 4।7युगे युगे 4।8 इत्येवमादिरूपस्योत्तरस्य च कालविरोधपरिहाररूपत्वात्। अतः परावरशब्दौ कालसङ्ख्योत्कर्षापकर्षविषयावित्यभिप्रायेणोक्तंकालसङ्ख्ययेति। अवरत्वहेतुतया विवक्षितं कालावधिं दर्शयतिअस्मदिति।समकालमिति अदूरविप्रकृष्टमित्यर्थः। त्वंशब्द इदानीन्तनत्वाभिप्रायतया विरोधपर इति द्योतनायत्वमेवेत्युक्तम्।कथमेतदित्याक्षेपसूचितमुक्तं असम्भावनीयमिति।विजानीयां इत्यत्रोपसर्गविवक्षितमाह यथार्थमिति। जन्मान्तरस्यैवाभावाद्वा जन्मान्तरानुभूतस्य स्मृत्या योगाद्वा वक्तुर्जन्मान्तरस्मृतिमत्तया श्रोतुरविदितत्वाद्वा खल्वेतज्जन्मावलम्बनेन विरोधचोद्यम्। न चैतदखिलमत्र सम्भवतीति प्रश्नमाक्षिपतिनन्विति।जन्मान्तरेणापि वक्तुं शक्यमिति नहि तदानीन्तनेन जन्मना तदानीन्तनायोपदेशो विरुद्ध इत्यर्थः।महतामिति न केवलमीश्वरस्य कृष्णस्य अन्येषामपि महतामिति भावः। श्रूयन्ते हि जातिस्मरवृत्तान्ताःजातिं स्मरति पौर्विकीम् 4।148 इति च मनुः।युज्यत इति अनुभवेन संस्कारे प्रागेव निष्पन्ने तस्य च अदृष्टविशेषादिवशादुद्बोधे जन्मान्तरानुभूतस्मृतौ न काचिदयुक्तिः यथा प्रथमस्तन्यपाने स्तन्यस्य पिपासाशान्तिहेतुत्वस्मृताविति भावः। महतामन्येषां स्मृतिः ईश्वरस्य तु प्राचीनवृत्तान्तगोचरः साक्षात्कारः स्मृतिरित्युपचर्यते।कश्चिदिति कालविप्रकर्षरूपो वा कारणाभावादिरूपो वेत्यर्थः। असाविति वृद्धोपसेवादिभिः श्रुतादिबहुलोऽर्जुनः।वक्तारमिति विवस्वते प्रोक्तवानहं इति स्वस्मै वक्तारम् यद्वा विवस्वते वक्तारमित्यर्थः।एनं वसुदेवतनयमिति। मानुषव्यापारजन्मभ्यां तिरोहितेश्वरभावमपीत्यभिप्रायः।सर्वेश्वरमिति विवस्वदादीनामपीश्वरमिति भावः यद्वा गोवर्धनोद्धरणाद्यतिमानुषवृत्तान्तैरवतारदशायामेव चतुर्भुजत्वादिना च व्यञ्जितेश्वरत्वमिति भावः। उक्तज्ञानसद्भावं कार्येण व्यवहारेण कारणेनोपदेशेन च स्थापयति यत एवमिति।एवं अनेकाप्ततमोपदेशादिभिरीश्वरत्वनिष्कर्षपूर्वकमित्यर्थः।अर्जुनस्य स्ववाक्येन स्वोक्तमहर्षिगणोपदेशेन च ज्ञानानुमानमुक्तम् भारतकथावगतेन बन्धूपदेशेन च ज्ञानवत्तामाह युद्धिष्ठिरेति। बहुष्वपि वृत्तान्तेष्वाप्ततमेभ्यो बहुभ्यो बहुधा श्रुतमित्यर्थः।कृष्ण एवेति स्थितिहेतुत्वेन प्रसिद्धः स एवोत्पत्त्यादेरपि हेतुः न तु ब्रह्मरुद्रादिः प्रधानादिर्वा यद्वा लौकिकैः पुरुषैर्वसुदेवतनयतया प्रतीयमानः कृष्ण एवेत्यर्थः। हिशब्दः एको ह वै नारायण आसीत् महो.1।1 इत्यादिश्रुतिप्रसिद्धिं दर्शयति।लोकानामिति।लोकस्तु भुवने जने अमरः3।3।2 तत्रान्यतरविवक्षायामितरदार्थम् उत्पत्त्यप्ययशब्दावत्रोत्पादकनाशकपरौ। चकारः प्रसिद्धिप्रकर्षादनुक्तं स्थितिहेतुत्वादिकं समुच्चिनोति। एवं यतो वा इमानि भूतानि तै.उ.3।1।1 इत्यादिना ब्रह्मलक्षणतयोक्तं सर्वकारणत्वमुक्तम्। अत एव हिपरं ब्रह्म इत्यर्जुनोक्तिः कृष्णस्य हीत्यत्र हिशब्देन पतिं विश्वस्य तै.ना.10।1 करणाधिपाधिपः श्वे.उ.6।9 इत्यादिप्रसिद्धिः सूच्यते।कृते इत्यस्य अनेकार्थसाधारणत्वात्तादर्थ्यपरत्वव्यञ्जनायाहकृष्णस्य शेषभूतमिति। अत्र च्विप्रत्ययाभावात् स्वाभाविकत्वं सूचितम्दासभूताः स्वतः सर्वे पां.रा. इत्यादिवत्। कृष्णस्य कृते भूतमिति कृष्णार्थमुत्पन्नं सत्तायोगि चेत्यर्थः।जन्माद्यस्य यतः ब्र.सू.1।1।3 इमानि भूतानि तै.उ.3।1।1 इत्यादिवदत्रापीदंशब्दः तत्तत्प्रमाणसिद्धविचित्रचेतनाचेतनसमुदायपरः पूर्वार्थोक्तसृज्यत्वसंहार्यत्वादिप्रकारानुवादपरो वा। तेन तदधीनोत्पत्त्यादिमत्त्वात्तादर्थ्ये हेतुरुक्तो भवतिकस्योदरे हरविरञ्चमुखप्रपञ्जः को रक्षतीममजनिष्ट च कस्य नाभेः। क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः केन वैष परवानिति शक्यशङ्कः इत्यादिवत्।अथ चोद्यवादिनोक्तमभ्युपगमेन प्रतिवक्ति जानात्येवेति। अवधारणेन नास्मिन्नंशे विवाद इति सूचितम्। अयमिति निर्देशः पूर्ववच्छ्रुतार्थत्वं सूचयति। वसुदेवसूनुंभगवान् इति जानातीत्यर्थः। नामपरो गुणपरो वाऽत्र भगवच्छब्दः। वसुदेवसूनुपार्थशब्दाभ्यां मातुलसुतत्वपैतृष्वसेयत्वसूचनेन इतरपुरुषवदीश्वरत्वादितिरोधायकप्राकृतसम्बन्धे सत्यपि सुकृतवशादुपदेशवशाच्च जानातीत्यभिप्रेतम्। तर्हि प्रश्नो निरवकाश इत्यत्राह जानतोऽपीति। नात्यन्ताज्ञातमनेन पृच्छ्यते ज्ञातमेव विशेषान्तरजिज्ञासया परिपृष्टमिति भावः।अजानत इवेत्यनेन विनयगर्भपरिप्रश्नप्रकारश्च सूचितः। अज्ञातांशबुभुत्सां जन्मादेर्मिथ्यात्वादिशङ्कां च जनयन्तो भगवति ज्ञातांशविशेषा उपादीयन्तेनिखिलेत्यादिषष्ठ्यन्तपदैः।निखिलहेयप्रत्यनीकेति यः परगतमपि जन्मजरादिहेयं निवर्तयति स कथं स्वयं तदेवोपाददीतेति भावः।कल्याणैकतानस्येति स्वरूपानन्दतृप्तस्य किं जन्मना इति भावः।सर्वेश्वरस्येति यदि कश्चित्स्वच्छन्दोऽस्य नियन्ता स्यात्तदा जन्मादि घटेत न च सोऽस्तीत्याशयः।सर्वज्ञस्येति यद्यसौ स्वस्य हितमहितं च न जानाति तदा हि स्वेच्छयैव बालादीनामग्न्यादिस्पर्शवज्जन्मादिपरिग्रहः स्यादित्यभिप्रायः।सत्यसङ्कल्पस्येति हिताहितज्ञाने सत्यपि कश्चिच्छुष्के पतिष्यामीति कर्दमे पतति न चासौ तथेति हृदयम् यद्वा लोकरक्षणाद्यर्थमेवावतार इति हि परमोत्तरं स्यात् तदप्ययुक्तं सङ्कल्पमात्रेण रक्षणाद्युपपत्तेरिति भावः।अवाप्तसमस्तकामस्येति यदि साध्यं किञ्चित्प्रयोजनं स्यात् तदा तदर्थं जन्मादि परिगृह्येत न च तदप्यस्तीति भावः। एवं च सतीश्वरो न वस्तुतो जन्मादिमान् अकर्मवश्यत्वात् मुक्तात्मवत्इत्यन्वयेन यो जन्मादिमान् स कर्मवश्यः यथा संसारी इति व्यतिरेकेण चैकमनुमानम् तत्रैव पक्षसाध्यादौ जन्मकारणभूतेश्वरादिनियोगाविषयत्वादिति द्वितीयम् द्वयोरप्यनुमानयोः यो यत्कारणरहितः न स तत्कार्यवान् यथा सम्प्रतिपन्न इति सामान्यतो वा व्याप्तिः सर्वेश्वरत्वादित्युक्ते तु न दृष्टान्तः केवलव्यतिरेकिविवक्षा तु देहपरिग्रहरहितघटादिसपक्षसद्भावात् केवलव्यतिरेकिप्रामाण्यस्य च सामान्यतो यामुनाचार्यादिभिर्निरस्तत्वादयुक्ता। एवं देहपरिग्रहाद्यभावे सङ्कुचितज्ञानशून्यत्वात् प्रतिहतसङ्कल्परहितत्वात् अपूर्णकामत्वरहितत्वात् साध्यप्रयोजनरहितत्वादिति मुक्तात्मघटादिदृष्टान्तेन हेतवः। यद्वा परमसाम्यापन्नान् मुक्तानेव दृष्टान्तीकृत्य सर्वज्ञत्वात्सत्यसङ्कल्पत्वादवाप्तसमस्तकामत्वादित्येव हेतवः।एवं यदि जन्मादयः स्युः तदा कर्मवश्यत्वमनीश्वरत्वमसर्वज्ञत्वमसत्यसङ्कल्पत्वमपूर्णकामत्वं च क्षेत्रज्ञवत्स्यादिति प्रसङ्गाश्च विवक्षिताः।निखिलहेय इत्याद्युक्तोभयलिङ्गत्वे च हेतवः सर्वेश्वरत्वादयः। पूर्वोक्ताकारविरोधितया मिथ्यात्वशङ्काहेतुः सामान्यतो विदितो जन्मप्रकार उच्यते कर्मपरवशदेवमनुष्यादिसजातीयमिति कर्मपरवशा देवमनुष्यादयः तेषां सजातीयं तज्जन्मसमानतया प्रतीयमानमित्यर्थः। यद्वा जन्मशब्दोऽत्र जायमानविग्रहपरः ईश्वरेण परिगृह्यमाणत्वात् इन्द्रजालादिवदित्युक्तम्। स्वेच्छया परेषां विचित्रभ्रमजननं हीन्द्रजालम् तेनात्र तत्प्रतिभानलक्षणा। आदिशब्देन शैलूषभूमिकापरिग्रहादि गृह्यते। मिथ्यात्वपक्षे न तत्र कश्चित्प्रकारो निरूपणीय इति कृत्वा सत्यत्वपक्षे शङ्कते सत्यत्व इति।कथमिति किं पारमेश्वरस्वभावपरित्यागेन अन्यथा वा इत्यर्थः।किमात्मक इति किं त्रिगुणात्मकः उताप्राकृतः इत्यर्थः।अयमिति भूतसङ्घसंस्थानवत्प्रतीयमान इति भावः।देह इति उपचयरूपतया ह्युपलभ्यत इति भावः।कश्च जन्महेतुरिति किं सङ्कल्पमात्रं उतेश्वरस्यापि स्वेच्छापरिगृहीते पुण्यपापे इत्यर्थः।कदा चेति किं पुण्यपापविपाककाले उत धर्मग्लान्यादिकाले इत्यर्थः।किमर्थं चेति किं सुखदुःखोपभोगार्थम् उत साधुपरित्राणाद्यर्थं इत्यर्थः। इत्ययमाशय इत्यन्वयः। ननुअवरम् इतिश्लोके व्याघातमात्रमेव चोद्यते तत्र बहुषु प्रश्नेष्वाशय इति कुतोऽवगतं इत्यत्राह परिहारेति।अयमभिप्रायः न ह्यन्यस्य प्रश्ने तदन्यविषयतया प्रतिवचनमुपपद्यते तथा सति प्रतिवक्तुरनभिप्रायज्ञतादिप्रसङ्गात् अतो यावद्विषयं प्रतिवचनं तावद्विषय एवायं प्रश्न इत्यभ्युपगन्तव्यम्। अत्र च प्रतिवचने चतुर्भिः श्लोकैर्जन्मसत्यत्वं जन्मप्रकारः देहयाथात्म्यं जन्मनो हेतुकालप्रयोजनानि च क्रमात् प्रतिपाद्यानि प्रतीयन्ते अतस्तान्येव प्रष्टव्यतयाऽभिप्रेतानीति।