Sbg 4.4 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।4.4।।भगवति लोकस्यानीश्वरत्वशङ्कां निवर्तयितुं चोद्यमुद्भावयति भगवतेति। परिहारार्थं भगवतो मनुष्यवदवस्थितस्यानीश्वरत्वमुपेत्य तद्वचने शङ्कितविप्रतिषेधस्येतिशेषः। भगवतो निजरूपमुपेत्य नेदं चोद्यंकिंतु लीलाविग्रहं गृहीत्वेति वक्तुं चोद्यमिवेत्युक्तम्। एतच्छब्दार्थमेव स्फुटयति यस्त्वमिति।