Sbg 4.40 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।4.40।। अज्ञः एवम् उपदेशलब्धज्ञानरहितः उपदिष्टज्ञानवृद्ध्युपाये च अश्रद्दधानः अत्वरमाणः उपदिष्टे च ज्ञाने संशयात्मा संशयितमना विनश्यति नष्टो भवति। अस्मिन् उपदिष्टे आत्मयाथात्म्यविषये ज्ञाने संशयात्मनः अयम् अपि प्राकृत लोको न अस्ति न च परः धर्मार्थकामादिपुरुषार्थाः च न सिद्ध्यन्ति कुतो मोक्ष इत्यर्थः।शास्त्रीयकर्मसिद्धिरूपत्वात् सर्वेषां पुरुषार्थानां शास्त्रीयकर्मजन्यसिद्धेः च देहातिरिक्तात्मनिश्चयपूर्वकत्वात् अतः सुखलवभागित्वम् आत्मनि संशयात्मनो न संभवति।