Sbg 4.37 scanand
Sanskrit Commentary By Sri Anandgiri ।।4.37।।ज्ञाने सत्यपि धर्माधर्मयोरुपलम्भात्कुतस्ततो निवृत्तिरित्याशङ्क्य ज्ञानस्य धर्माधर्मनिवर्तकत्वं दृष्टान्तेन दर्शयितुमनन्तरश्लोकमवतारयति ज्ञानमिति। योग्यायोग्यविभागेन निवर्तकत्वानिवर्तकत्वविभागमुदाहरति यथेति। दृष्टान्तानुरूपं दार्ष्टान्तिकमाचष्टे ज्ञानाग्निरिति। योग्यविषयेऽपि दाहकत्वमग्नेरप्रतिबन्धापेक्षयेति विवक्षित्वा विशिनष्टि सम्यगिति। दार्ष्टान्तिकं व्याचष्टे ज्ञानमेवेति। ननु ज्ञानं साक्षादेव कर्मदाहकं किमिति नोच्यते निर्बीजीकरोति कर्मेति किमिति व्याख्यानमित्याशङ्क्याह नहीति। ज्ञानस्य स्वप्रमेयावरणाज्ञानापाकरणे सामर्थ्यस्य लोके दृष्टत्वादविक्रियब्रह्मात्मज्ञानमपि तदज्ञानं निवर्तयन् तज्जन्यकर्तृत्वभ्रमं कर्मबीजभूतं निवर्तयति। तन्निवृत्तौ च कर्माणि न स्थातुं पारयन्ति नतु साक्षात्कर्मणां निवर्तकं ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तेस्तदनिवृत्तौ तु पुनरपि कर्मोद्भवसंभवादित्यर्थः। ज्ञानस्य साक्षात्कर्मनिवर्तकत्वाभावे फलितमाह तस्मादिति। सम्यग्ज्ञानं मूलभूताज्ञाननिवर्तनेन कर्मनिवर्तकमिष्टं चेदारब्धफलस्यापि कर्मणो निवृत्तिप्रसङ्गाज्ज्ञानोदयसमकालमेव शरीरपातः स्यादित्याशङ्क्याह सामर्थ्यादिति। ज्ञानोदयसमसमयमेव देहापोहे तत्त्वदर्शिभिरुपदिष्टं ज्ञानं फलवदिति भगवदभिप्रायस्य बाधितत्वप्रसङ्गादाचार्यलाभान्यथानुपपत्त्या प्रवृत्तफलकर्मसंपादकमज्ञानलेशं न नाशयति ज्ञानमित्यर्थः। कथं तर्हि प्रारब्धफलं कर्म नश्यतीत्याशङ्क्याह येनेति। तर्हि कथं ज्ञानाग्निः सर्वकर्माणि भस्मसात्करोतीत्युक्तं तत्राह अत इति। ज्ञानादारब्धफलानां कर्मणां निवृत्त्यनुपपत्तेरनारब्धफलानि यानि कर्माणि पूर्वं ज्ञानोदयादस्मिन्नेव जन्मनि कृतानि ज्ञानेन च सह वर्तमानानि प्राचीनेषु चानेकेषु जन्मस्वर्जितानि तानि सर्वाणि ज्ञानं कारणनिवर्तनेन निवर्तयतीत्यर्थः।