Sbg 4.35 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।4.35।। यज्ज्ञात्वेति। यत् चिन्मात्रस्वरूपं ब्रह्म ज्ञात्वा एवमिदानीमिव पुनर्मोहं न यास्यसि। अथो अपि च येन ज्ञानेन भूतानि ब्रह्मादिस्तम्बपर्यन्तान्यात्मनि मयि त्वंपदलक्ष्यार्थादनन्यभूते परमेश्वरे द्रक्ष्यसि।नान्योऽतोऽस्ति द्रष्टा इति प्रतीचोऽन्यस्य द्रष्टुर्निषेधात्। भाष्ये तु साक्षादात्मनि मत्स्थानीमानीति द्रक्ष्यसि। अथो अपि मयि वासुदेवे परमेश्वरे च इमानीति क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसीत्यर्थ इति।