Sbg 4.35 scjaya

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।4.35।।येन भूतानि इत्यस्य येन मोहेन सर्वाणि भूतान्यात्मनि स्वस्मिन्नथो मयि च द्रक्ष्यसीत्यन्यथाप्रतीतिनिरासार्थमाह येने ति। आत्मभूते सर्वान्तर्यामिणि। द्रक्ष्यसीत्येतत्पश्यसीति व्याख्यातं इदानीमपि ज्ञान्येवेति ज्ञापयितुम्।