Sbg 4.31 scms
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhusudan Saraswati ।।4.31।।एवमन्वये गुणमुक्त्वा व्यतिरेके दोषमाहार्धेन उक्तानां यज्ञानां मध्येऽन्यतमोऽपि यज्ञो यस्य नास्ति सोऽयज्ञस्तस्यायमल्पसुखोऽपि मनुष्यलोको नास्ति सर्वनिन्द्यत्वात् कुतोऽन्यो विशिष्टसाधनसाध्यः परलोकः हे कुरुसत्तम।