Sbg 4.31 scang

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।4.31।।यज्ञेति। यज्ञेन शिष्टम् आहृतं यज्ञाच्च ( N यज्ञाश्च) निजकरणतर्पणरूपादवशिष्टं वा स्वात्मविश्रान्तिरूपं परानन्द ( N परानन्दं) निरानन्दात्मकममृतमुपभुञ्जाना अपि ( N भुञ्जाना इति यथेच्छम्) यथेच्छं संसृज्यन्ते ब्रह्मतयेति। तदुपरम्यते अतिरहस्यस्फुटप्रकटनवाचालतायाः।अत्र बहुतरो रहस्यरसः अन्तःसंलीनीकृतोऽपि निबिडतरभक्तिसेवासम्प्रसादितगुरुचरण (S N गुरुवचनसं ) संप्राप्तसंप्रदायमहौषधसमीकृतधातूनां चर्वणादिविषयतां भूतार्थास्वादहेतुतां च प्रतिपद्यते ( प्रतिपाद्यते)।अत्र व्याख्यान्तराणि टीकाकारैः प्रदर्शितानि। तानि अस्मद्गुरुपादनिरुक्तानि च स्वयमेव सचेतसः संप्रधार्यन्तामितिं किमन्येन ( omits किमन्येन) हन्त व्याख्यातृवचनदूषणाविनोदनेन। तदुपक्रान्तमेवोपक्रम्यते (S पगम्यते)।