Sbg 4.2 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।4.2।। एवमिति। एवं परंपराप्राप्तमिक्ष्वाकोर्निमिनाभागादिक्रमेण राजर्षयो जनकाजातशत्रुकैकेयप्रभृतयो राजानः ऋषयश्च सनकवसिष्ठाद्याः सूक्ष्मार्थदर्शिनस्ते राजान एव ऋषय इति वा अविदुर्ज्ञातवन्तः।सिजभ्यस्तविदिभ्यश्च इति लङो झेर्जुस्। नष्टोऽदर्शनं गतः।