Sbg 4.25 scjaya

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।4.25।।उत्तरप्रकरणप्रतिपाद्यं बुद्ध्यारोहार्थमाह यज्ञे ति। सामान्यतः कर्मस्वरूपमुक्तम् तच्च यज्ञादिभेदभिन्नम्। तत्रनायं लोकोऽस्ति 4।31 इति वक्ष्यति तदनुपपन्नम् यत्याद्याश्रमविलोपप्रसङ्गादित्याद्याशङ्कानिरासार्थमिति शेषः। तत्रदैवं देवविषयं इति व्याख्यानमसत्।द्रव्ययज्ञाः 4।28 इत्यस्य पुनरुक्तत्वादिति भावेनाह दैवमि ति। एवं तर्हिकेचित् भगवन्तमुपासते इत्युक्तं स्यात्। तथा च नेयं यज्ञोक्तिरित्यत आह स एवे ति। स इति परामृष्टं दर्शयति भगवदि ति। भगवदुपासनस्य यज्ञत्वमिह कथं लभ्यते इत्यत आह यज्ञमि ति। भगवदित्यादिकं क्रियाविशेषणत्वप्रदर्शनार्थमेकमेव वाक्यम्। साधनं परित्यज्य धात्वर्थमात्रस्य विशेषणं क्रियाविशेषणम्। अवधारणार्थं दर्शयति नान्यदि ति। अन्यद्भगवदुपासनात्। अनेन एवशब्दो भिन्नक्रम इत्युक्तं भवति। दैवमेवोपासते नान्यदिति तु प्रकृतासङ्गतम्। केषाञ्चित्परमहंसानाम्। अन्येषां बाह्यकर्मणोऽपि भावात्। यद्वाकेषाञ्चित् इत्यस्यैव व्याख्यानं यतीनामिति।ब्रह्माग्नौ इत्यस्यआत्मानमात्मनैव मनसा वा ब्रह्मणैकीभावयन्ति इति व्याख्यानमसदिति भावेन यज्ञमित्येतद्व्याचष्टे यज्ञमि ति। भगवतो यज्ञशब्दार्थत्वं कुतः इत्यत आह यज्ञेने ति।यज्ञेन इत्यस्यार्थमाह यज्ञेने ति। एवशब्देनापव्याख्यानं निराकरोति। एवं चेद्यज्ञमित्यस्य कथमन्वयः इत्यत आह यज्ञमि ति। एतद्व्याख्यानमन्यत्रातिदिशति इति सर्वत्रे ति। अतिप्रसङ्गनिवारणायसर्वत्र इत्युक्तं विवृणोति तमिति । एवं तर्ह्यग्रतो जातं तं पुरुषं यज्ञं भगवन्तं प्रति बर्हिषि प्रौक्षन्नित्यर्थः स्यात्। स च निर्मूल इत्यत आह उक्तं चेति।