Sbg 4.25 scang
Sanskrit Commentary By Sri Abhinavgupta ।।4.25।।दैवमेवेति। अपरे दैवानि क्रीडनशीलानि (K क्रीडाशीलानि) इन्द्रियाणि आश्रित्य यः स्थितो यज्ञो निजविषयग्रहणलक्षणः तमेव परितः उपासते आमूलाद्विमृशन्ते स्वात्मलाभं लभन्ते। अत एव ते योगिनः सर्वावस्थासु सततमेव योगयुक्तत्वात्। नित्ययोगे ह्यत्रायं मत्वर्थीयः इनिः । एनमेव च विषयग्रहणात्मकं यज्ञं यज्ञेनैव तेनैव उक्त लक्षणेन अपरे पूरयितुमशक्ये ब्रह्माग्नौ जुह्वति इति कैश्चित् व्याख्यातम्।मुनेस्तु पौर्वापर्याविरुद्धत्वात् योऽर्थ तस्य हृदि स्थितः तं प्रकाशयामः। केचिद्योगयुक्तः सन्तो दैवं नानारूपेन्द्रादिदेवतोद्देशेनैव बाह्यद्रव्यमयं यज्ञमुपाचरन्ति। तं च क्रियमाणमेव यज्ञं यज्ञेन कर्तव्यमिदमित्येव बुद्ध्या फलानपेक्षया (S पेक्षितया) अपरे दुष्पूरे ब्रह्माग्नौ अर्पयन्तीति द्रव्ययज्ञा अपि परं ( omits परम) ब्रह्म यान्ति। यतो वक्ष्यते सर्वेऽप्येते यज्ञविदः इति (गीता 4.30) श्रुतिरपियज्ञेन यजमयजन्त देवाः(ऋ. सं. X 164 50 ) इति।