Sbg 4.24 scneel
Sanskrit Commentary By Sri Neelkanth ।।4.24।।कुतो विदुषां कर्माणि प्रविलीयन्त इत्याशङ्क्याह ब्रह्मार्पणमिति। यतस्ते विद्वांसः सविकल्पसमाधौ सर्वं जगत्प्रत्यक्चितिशक्तिनिर्मितं पश्यन्ति। तथा च श्रुतिःकिं कारणम् इत्युपक्रम्य कालः स्वभाव इति कालादीनि लोकदृष्ट्यानेकानि कारणान्युपक्षिप्य कारणं निर्णीयते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम् इति समाधिना दर्शयति। तथा च समाधिना सर्वस्य ब्रह्मणि कल्पितत्वं पश्यतां तेषां यदर्पणमर्पणसाधनं मन्त्रजुह्वादि तत् ब्रह्मैव। एवशब्दः सर्वत्रानुषञ्जनीयः। यदर्पणीयं हविस्तदपि ब्रह्मैव। यत् हुतं हवनक्रिया हुतं तर्पितं देवब्राह्मणादि वा तदपि ब्रह्मैव। यदग्नौ हुतं तदपि ब्रह्मण्येव हुतम्। अत्र ब्रह्मणीति पदमध्याहर्तव्यम्। यद्यजमानेन हुतं तद्ब्रह्मणैव हुतम्। यत्तेन कर्मणा गन्तव्यं प्राप्तव्यं फलं तदपि ब्रह्मैव। किं बहुना यत्किंचित्तस्य कर्म शयनासनादिकं तत्सर्वं ब्रह्मैव। तत्र कारणं समाधिना समाधिजेनात्मसाक्षात्कारेण। यतः सर्वमस्य ब्रह्मात्मकं ब्रह्म च प्रत्यगनन्यत अतः प्रदेयस्य फलस्याभावात् कर्माणि प्रविलीन्यन्ते दाह्याभावाद्दहन इवेति भावः। यत्तु कर्मणि तदङ्गेषु च नामादिष्विव ब्रह्मदृष्टिरत्र विधीयत इति व्याख्यानं तदुपक्रमादिविरोधाद्ब्रह्मविद्यायाः प्रकृतत्वाच्चासंगतमिति भाष्ये एव निरस्तम्। या हि ब्रह्मविदां कर्माङ्गेषु तात्विकी ब्रह्मदृष्टिः कीर्तिता सा स्थितप्रज्ञलक्षणवदब्रह्मविदामनुष्ठानायैव फलतो भवतीति न तत्र तस्यास्तात्पर्यं वर्णनीयमिति दिक्।