Sbg 4.21 scjaya

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।4.21।।कामादिवर्जितत्वमेवनिराशीः इत्यनेनोच्यत इत्यत आह कामे ति। आदिपदेन सङ्कल्पादिपरिग्रहः। कथमित्यतो योजयति यते ति। निराशीः त्यक्तसर्वपरिग्रहश्च भवतीति शेषः। सेन्द्रियं शरीरमात्मेत्यसत् अन्तःकरणवृत्तेः नियमेनैवैतन्नियमसिद्धेरिति भावेनाह आत्मे ति। ननु परिग्रहो देहादिः तत्त्यागः कथं साधकस्य इत्यत आह परिग्रहे ति। अनभिमानमि ति। स्थितिरित्यादिक्रियाविशेषणम्। अर्थाभावेऽव्ययीभावो वाऽयम्। अभिमानाभाव इत्यर्थः। पूर्वश्लोकेकर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः इति कर्मणां मिथ्यात्वज्ञानादिति व्याख्यानमसत्। अत्र श्लोके अन्यथा तदभिप्रायस्य वर्णितत्वादिति भावेनाह नैवे ति। गौण्या वृत्त्यैतदभिप्रायकथनमवधेयम्।