Sbg 4.1 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।4.1।।एवमध्यायद्वयेनोक्तस्य निष्ठाद्वयात्मकस्य वेदार्थस्य समाप्तिं मन्यमानः संप्रदायप्रदर्शनेन तं स्तुवन श्रीभगवानुवाच। इममध्यायद्वयेनोक्तं योगं सांख्ययोगं कर्मयोगरुपोपायसहितं ससंन्यासं इमं संध्योपासनादिनिर्विकल्पकसमाध्यनुष्ठानान्तं कर्मयोगं ज्ञाननिष्ठोपसर्जनं पारिव्राज्यानधिकारिणं राज्ञामेव योग्यमित्यन्येषां व्याख्याने तु द्वितीयाध्यायार्थस्येदंशब्देनाग्रहणप्रसङ्गः। नचेष्टापत्तिः। अध्यायद्वयोक्तेऽर्थेऽप्रामाण्यशङ्का माभूदिति। विद्यावंशसंप्रदायं दर्शयति इममित्यादिनेति स्वोक्तिविरोधात्। एतेन राज्ञामेव योग्यमित्यपि प्रत्युक्तम्। अध्यायद्वयेन प्रतिपादिते वेदार्थेऽग्रे विस्तरेण वक्ष्यमाणे ब्राह्मणादियोग्यताभावप्रसङ्गात्। सर्गादौ विवस्वते सूर्यायाहं श्रीकृष्णः प्रोक्तवान्। ब्रह्मपरिपालनसमर्थबलाधानाय। ब्रह्मक्षत्रे परिपालिते सर्वं जगद्रक्षितं भवति। अव्ययमव्ययफलत्वादिदं भाष्यमुपलक्षणं अव्ययवेदमूलत्वात्। न व्येति स्वफलादित्यव्ययं अव्यभिचारिफलमित्यस्यापि। यत्त्वव्ययमविच्छिन्नसंप्रदायमिति तत्तु स कालेनेह महता योगो नष्टः परंतपेति वाक्यशेषविरोधादुपेक्ष्यम्। सच विवस्वान्मनवे श्राद्धदेवाय प्राह। सच मनुरिक्ष्वाकवे स्वपुत्रायादिराजायाब्रवीत्।