Sbg 4.14 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।4.14।।ननु कर्तुरपि कथमकर्तृत्वमत आह न मामिति। कर्मलेपोऽपि कुतो नास्तीत्यत आह न मे इति। यः कर्तृत्वाभिमानी स लिप्यते यस्तु फलेच्छुः स एवात्मनः कर्तृत्वं मनुत इति फलेच्छाभावादकर्ता अकर्तृत्वाच्च न लिप्यतेऽथं इति मां योऽभिजानाति स कर्मफलस्पृहात्यागात्कर्मभिर्न बध्यते।