Sbg 4.14 scmad
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhavacharya ।।4.14।।अत एवन मां कर्माणि लिम्पन्ति 4।14 इतश्च न लिम्पन्तीत्याह न मे कर्मफले स्पृहेति। इच्छामात्रं त्वस्ति न तु तत्राभिनिवेशः। तच्चोक्तम् आकाङ्क्षन्नपि देवोऽसौ नेच्छते लोकवत्परः। न ह्याग्रहस्तस्य विष्णोर्ज्ञानं कामो हि तस्य तु इति। न च केचिन्मुक्ता भवन्तीति क्रमेण सर्वमुक्तिः। तथा हि श्रुतिः ज्ञात्वा तमेवं मनसा हृदि च भूयो न मृत्युमुपयाति विद्वान् म.ना.उ. इति। कथं वा इत्यनन्ता वेत्यनन्तवदिति होवाच इति।