Sbg 4.11 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।4.11।।एवं साधुपरित्राणाद्यर्थदेवमनुष्यादिसजातीयस्वेच्छावतारवर्णनमुखेनोपासनोपयुक्तं स्वस्य सौलभ्यमुक्तम्। अथ तस्यैव काष्ठाप्राप्तां दशां दर्शयति ये यथा इति श्लोकेन। अत्र कृष्णावतारवृत्तान्तेन सहार्चावतारवृत्तान्तोऽपि सङ्गृहीतः।ये यथा तांस्तथैव इति शब्दाः पूर्वोक्ताधिकारितदनुष्ठानप्रकारादिनियमनिवृत्तिपरा इत्यभिप्रायेणाह न केवलमिति।स्वापेक्षानुरूपमिति पतित्वपुत्रत्वसारथित्ववाराहनारसिंहादिप्रक्रिययेत्यर्थः।सङ्कल्प्य मनोरथविषयं कृत्वेत्यर्थः। एतदेवात्र प्रपदनमित्याह समाश्रयन्त इति।तांस्तथैव भजाम्यहम् इत्यत्र तद्भजनप्रकारेणाहमपि तान्भजामीत्येतदसङ्गतमिति शङ्कानिरासाय तथैवेत्यस्यार्थमाह तन्मनीषितप्रकारेणेति। न तु स्वकीयपरत्वानुरूपप्रकारेणेति भावः। अत्र यथाभिलषितफलप्रदानेन पक्षपातपरिहारार्थत्वं परोक्तं पूर्वोत्तराभ्यां नात्यन्तसङ्गतम्चातुर्वर्ण्यम् 4।13 इत्यादिनाऽर्थतः पुनरुक्तिश्च स्यात्। सेवकान् प्रति सेव्यस्य भजनं नाम सुलभदर्शनत्वमित्यभिप्रायेणमां दर्शयामीत्युक्तम्।


उक्तार्थस्य लोकेऽपि प्रदर्शनपरमुत्तरार्धम् न पुनःयदि ह्यहं न वर्तेयम् 3।23 इत्यादाविव स्वस्य लोकानुविधेयानुष्ठानवत्त्वपरम् तस्येहासङ्गतत्वादित्यभिप्रायेण वाङ्मनसागोचरसौलभ्यपरतां विवृणोति किमत्र बहुनेति। मनुष्यशब्दः स्त्र्यादीनामपि सङ्ग्राहक इत्यभिप्रायेण सर्वशब्दः। अत्र वर्त्मशब्दो न साक्षात्सरणिवाचकः असङ्गतवाक्यार्थत्वप्रसङ्गात्। नाप्याचारपरः तस्याप्यत्रासङ्गतत्वेनोक्तदूषणत्वात्। अत एवएवं प्रवर्तितं चक्रम् 3।16तेनैव स्थापिता ब्रह्ममर्यादा लोकभाविनी इत्याद्युक्तशास्त्रमर्यादानुवर्तनपरत्वमपि निरस्तम्। अतोऽत्र सौलभ्योपदेशप्रकरणे स्वासाधारणविग्रहचेष्टासौशील्यादिस्वभावसमुदायपरत्वमेवोचितमित्यभिप्रायेणोक्तं मम वर्त्म मत्स्वभावं सर्वमिति। सरणिवाचकमपि हिशब्दमुपचारात् स्वभावविषयतया प्रयुञ्जते। यथाकोऽयं पन्था यदसि विमुखो मन्दभाग्ये मयीत्थम् इति।मनुष्याः इत्यनेन सूचितमुच्यते योगिनामिति। योगपरिशुद्धमनसां वाङ्मनसागोचरमपि मां सचक्षुषो मनुष्या बाह्येन्द्रियैरप्यनुभवन्तीत्यर्थः। प्रियतमपितृपुत्रसुहृद्भ्रातृभृत्यसारथित्वादिरूपाण्यर्चावताररूपाणि चसर्वशः इत्यनेन विवक्षितानीत्याहस्वापेक्षितैरिति।अनुभूयानुवर्तन्ते अनुभवन्तो वर्तन्त इत्यर्थः। अलङ्करणयात्रोत्सवसेवादिर्वाऽत्र प्रकारः। अत्र योगिनां वाङ्मनसागोचरमपिचक्षुरादिकरणैः इति वचनादर्चावताररूपेऽपि पररूपत्वानुसन्धानं दर्शितम्। यथा स्मरन्तितामेव ब्रह्मरूपिणीम् वि.ध.103।29 इति। वक्ष्यति च भगवान्भुजैश्चतुर्भिः इत्यादि। एवं प्रसङ्गात् सौलभ्यातिरेकं सारथ्यादिना पश्यतोऽपि पाण्डवस्योपासिसिषापूर्त्यर्थं कण्ठोक्त्याप्युपदिदेश।


नन्वेतावताऽपि चोद्यानुमानतर्काणां कः परिहार उक्तो भवति तदुच्यते हेयप्रत्यनीकः स्वयं हेयं कथमुपाददीतेति चोद्यमवतारादेर्हेयत्वाभावादेव निरस्तम् तदभावश्चाकर्मवश्यत्वाप्राकृतत्वस्वेच्छाकृतत्वादिभिः। पुण्यपापाद्यभावे नियन्त्रन्तराभावे च कथं जन्मादीत्येतदपि स्वेच्छया परिहृतम्। हिताहिताज्ञानाशक्त्यादिचोद्यमकर्मवश्यस्य लीलयाऽवतरतोऽस्याहिताभावात्तदज्ञानाभावाच्च निरस्तम्। प्रयोजनाभावचोद्यं तु साधुपरित्राणादिप्रयोजनवर्णनेनापाकृतम्। यत्तु साधुपरित्राणादौ सङ्कल्पमात्रेणापि शक्ये किमवतारादिनेति तदपिपरित्राणाय साधूनाम् 4।8 इत्यत्रमन्नाम इत्यारभ्यआलापादिदानेन तेषां परित्राणाय रा.भा.4।8 इत्यन्तेन भाष्येणधर्मसंस्थापनार्थाय 4।8 इत्यत्रआराध्यस्वरूपप्रदर्शनेन इत्यनेनये यथा इत्यत्र सर्वसाधारणस्वसौलभ्यातिरेकप्रदर्शनेन च परिहृतम्। यदुक्तम् ईश्वरो न वस्तुतो जन्मादिमान् अकर्मवश्यत्वात् मुक्तात्मवत् इति तत्रेश्वराभ्युपगमानभ्युपगमयोर्धर्मिग्राहकबाधाश्रयासिद्धी।किञ्च किमत्र कर्महेतुकजन्मादिरहित इति साध्यार्थः उताकर्महेतुकजन्मादिरहित इति अथवा सामान्येन जन्मादिमात्ररहित इति। न प्रथमः सिद्धसाधनात्। न द्वितीयः हेतोरप्रयोजकत्वात्। न हि कर्मनिवृत्तिरकर्महेतुकं जन्मापि निवर्तयति निषेधस्वरूपसमर्पकप्रमाणेन बाधश्च यथाग्नेरनौष्ण्यानुमाने। न तृतीयः दृष्टान्तस्य साध्यविकलत्वात् मुक्तस्यापि हि शरीरपरिग्रहोजक्षन्क्रीडन् रममाणः छां.उ.8।12।3 स एकधा भवति त्रिधा भवति छां.उ.7।26।2 इत्यादिश्रुतिसिद्धः। तर्हि मुक्तोऽपि पक्षीकृत इति चेत् तदा को दृष्टान्तः घटादिरिति चेत् न तत्र शरीरपरिग्रहाद्यभावस्य अचेतनत्वोपाधिकत्वात्। एतेन यो जन्मादिमान् स कर्मवश्य इति व्यतिरेकोऽपि भग्नः। यस्त्वीश्वरनियोगाविषयत्वादिति सोऽपि प्रथमेन तुल्यार्थः। पुण्यपापनिरूपकशास्त्रस्यैवेश्वराज्ञारूपत्वात्। यत्तु तत्कारणरहितत्वात् यो यत्कारणरहितः न स तद्वानिति तदप्यसत् उपादानकारणविवक्षया प्रयोगे त्वप्राकृताकर्मनिमित्तावतारोपादाननित्यविग्रहसद्भावोपपादनाद्धेत्वसिद्धेः। निमित्तविवक्षया प्रयोगे तु सङ्कल्पादिनिमित्तोपपादनात्। सामान्यविवक्षाऽपि तत एवोक्तोत्तरा। एवंसङ्कुचितज्ञानशून्यत्वात् इत्यादिष्वपि धर्मिग्राहकबाधादिकं भाव्यम्साध्यप्रयोजनरहितत्वात् इत्यत्र हेत्वसिद्धिश्च साधुपरित्राणलीलादिप्रयोजनस्योक्तत्वात्। तथापीदानीन्तनं सुखं प्राङ्नास्तीति तेनांशेनापूर्णत्वं प्रसज्यत इति चेत् न इदमपूर्णत्वम् इष्टविघाताभावात् इच्छाकाले च तत्सिद्धेः तदानीमपि यदीच्छेत्सिद्ध्येदिति योग्यतासद्भावात् उत्तरकालीनस्यापि तस्य प्रागपीश्वरेण सर्वज्ञेन स्वसुखतयाऽनुसन्धीयमानत्वात्। एवमतीतेऽपि भाव्यम्। भविष्यतोऽपि सुखत्वेन प्रकाशमानत्वे किमर्था तत्रेच्छा इति चेदुत्पत्त्यर्थेति ब्रूमः। तया किं प्रयोजनं इति चेत्सैव सा तर्हि पूर्वोत्तरकालयोर्नास्तीति तयोः कालयोरपूर्णत्वमिति चेत् न तत्कालीनतया तयैव सर्वदा ज्ञायमानया पूर्णत्वात् ननु कस्यचिदिष्यमाणत्वं तदलाभे दुःखादिति चेत् न तल्लाभस्य प्रयोजनत्वेनैव तदुपपत्तेः अशक्तस्य हि तदिच्छतस्तदसिद्धेर्दुःखं जायते शक्तस्य तु तदिच्छैव तत्सुखत्वं पुष्यतीति न सङ्कटं किञ्चिदिति। एतेन साध्यप्रयोजनरहितत्वे हेतौ मुक्तदृष्टान्तोऽपि साधनविकलःजक्षन्क्रीडन् छां.उ.8।12।3 इत्यादिश्रुतेः। ये तु परमसाम्यापन्नदृष्टान्तेन सर्वज्ञत्वादित्यादिहेतवः तेष्वपि साध्यविकलत्वादिदोषः समानः। प्रसङ्गाश्चानुमानवद्व्याप्त्याद्यभावेन दूषिता इति।


तदेवं सिद्धं जन्मादिकमीश्वरस्य सत्यं तत्प्रतिपादकं च वचः प्रमाणमिति। यत्त्ववतारेषु दुःखशोकभयादिकं क्वचिदुच्यते तदस्यापहतपाप्मत्वादिबलात्तेन वञ्चयते लोकान् म.भा.5।68।15 इत्यादिवचनबलाच्चाभिनयमात्रं मन्तव्यमिति।