Sbg 4.10 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।4.10।।उपासनवैयर्थ्यमित्यादिशङ्कोत्तरत्वेन योऽयमर्थ उक्तः अयमेववीतराग इति श्लोकेनोच्यत इत्याह तदाहेति तदेव पूर्वप्रस्तुतं ज्ञानमिहज्ञानतपसा इत्युच्यते।मन्मया मामुपाश्रिताः इति तु परम्परया तत्साध्यज्ञानमित्यभिप्रायेणाह मदीयेति। अस्य श्लोकस्य पूर्वश्लोके व्याख्यातप्रायत्वात्एवं संवृत्ता इति संग्रहेणोक्तम्। तथाहिज्ञानतपसा पूताः इत्यस्यार्थोमदीयेत्यारभ्य पाप्मा इत्यन्तेन प्रपञ्चितः।मामाश्रित्य इत्यनेनमामुपाश्रिताः इत्यस्यार्थ उक्तः।मदेकप्रियः इत्यनेनवीतरागभयक्रोधाः इत्यस्यार्थोऽभिप्रेतः विषयान्तरेषु प्रीतिर्हि रागः तद्विरोधिषु निरसनेच्छा क्रोधः आगामीष्टविरोध्यनिष्टागमोत्प्रेक्षा भयम्। तदेतदखिलमपि न वासुदेवभक्तानामस्ति तदेकप्रियत्वेन विषयान्तरे रागाभावात् तत एव तन्मूलक्रोधाभावात् तल्लाभालाभव्यतिरिक्तेष्टानिष्टाभावेन भयाभावाच्च। इदं चन क्रोधो न च मात्सर्यम् म.भा.13।149।134 इत्यादिषु प्रसिद्धम्।मदेकचित्तः इतिमन्मयाः इत्यस्यार्थः। ज्ञानविषयभूतेन मया प्रचुरा मन्मयाः तादात्म्यविकारार्थयोरत्रानुपपन्नत्वात् अन्तर्यामित्वविवक्षायां तस्य सर्वसाधारणत्वाच्च।मन्मयाः इत्यत्रईश्वराभेददर्शिनः इतिशङ्करोक्तं शास्त्रोपक्रमादिविरोधाच्छब्दस्य चावाचकत्वाच्च निरस्तम्।मामेव प्राप्नोति इत्यनेनमद्भावमागताः इत्यस्यार्थो दर्शितः। मुक्त्यवस्थायामपि तादात्म्यस्य श्रुतिस्मृतितदर्थापत्तिसूत्रादिविरुद्धत्वात् अत्रापिमामेति सोऽर्जुन 4।9 इति कर्मकर्तृव्यपदेशात्मम साधर्म्यमागताः 14।2 इति परस्ताद्वक्ष्यमाणत्वाच्चमद्भावमागताः इत्यस्य मत्स्वभावमपहतपाप्मत्वादिकं प्राप्ता इत्यर्थः। यद्वा ब्रह्मैव भवति मुं.उ.3।2।9 इत्यादाविवात्यन्तसाम्यात्तद्व्यपदेशः। अवताररहस्यस्य च ज्ञातव्यत्वे श्रुतिरप्यस्तीत्याहतथा चेति। उक्तार्थसंवादित्वं विवृणोतिधीमतामग्रेसरा इत्यादिना। एवंधीरशब्दनिर्वचनेन प्रागुक्तभगवत्प्राप्तिपर्यन्ताभङ्गुरज्ञानवत्त्वमुक्तं भवति।परिजानन्ति इत्यत्रोपसर्गेण पूर्वोक्तयथावस्थितप्रकारोऽभिप्रेत इति ज्ञापनायएवं तस्य जन्मप्रकारं जानन्तीत्युक्तम्।धीमतामग्रेसरा एव इति पाठे तु विशेषविधेः शेषनिषेधः फलित इति भावः।