Sbg 4.10 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।4.10।। वीतरागभयक्रोधाः रागश्च भयं च क्रोधश्च वीताः विगताः येभ्यः ते वीतरागभयक्रोधाः मन्मयाः ब्रह्मविदः ईश्वराभेददर्शिनः मामेव च परमेश्वरम् उपाश्रिताः केवलज्ञाननिष्ठा इत्यर्थः। बहवः अनेके ज्ञानतपसा ज्ञानमेव च परमात्मविषयं तपः तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तः मद्भावम् ईश्वरभावं मोक्षम् आगताः समनुप्राप्ताः। इतरतपोनिरपेक्षज्ञाननिष्ठा इत्यस्य लिङ्गम् ज्ञानतपसा इति विशेषणम्।।तव तर्हि रागद्वेषौ स्तः येन केभ्यश्चिदेव आत्मभावं प्रयच्छसि न सर्वेभ्यः इत्युच्यते