Sbg 4.10 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।4.10।।एतस्यापि भगवत्प्राप्तेर्द्वारमाह वीतेति। रागो विषयेषु प्रीतिः भयं स्वोच्छेदाशङ्का क्रोधः स्वपरपीडाहेतुरभिज्वलनं ते त्रयो वीता येभ्यस्ते वीतरागभयक्रोधाः। अतएव मन्मयाः मदेकप्रधानाः। किं जारिणी यथा जारमपि भर्तारं चाश्रिता योगक्षेमार्थं तद्वन्नेत्याह। मामुपाश्रिताः ज्ञानतपसा ज्ञानमयं तप आलोचनं मम जन्मकर्मणोः स्वरूपस्य च निरन्तरं चिन्तनंयस्य ज्ञानमयं तपः इति श्रुतिप्रसिद्धं ज्ञानतपस्तेन पूताः सन्तो मद्भावं मत्तादात्म्यं प्राप्ता इत्यर्थः।