Sbg 4.10 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।4.10।।मामेति सोऽर्जुनेत्युक्तं तत्र स्वस्य सर्वमुक्तप्राप्यतया पुरुषार्थत्वं अस्य मोक्षमार्गस्यानादिपरंपरागतत्वं च दर्शयति रागस्तत्फलं तृष्णां सर्वान्विषयान्परित्यज्य ज्ञानमार्गे कथं जीवितव्यमिति त्रासो भयम् सर्वविषयोच्छेदकोऽयं ज्ञानमार्गः कथं हितः स्यादिति द्वेषः क्रोधः त एते रागभयक्रोधाः वीता विवेकेन विगता येभ्यस्ते वीतरागभयक्रोधाः शुद्धसत्त्वाः मन्मयाः मां परमात्मानं तत्पदार्थं त्वंपदार्थाभेदेन साक्षात्कृतवन्तः मदेकचित्ता वा मामुपाश्रिताः एकान्तप्रेमभक्त्या मामीश्वरं शरणं गताः बहवोऽनेके ज्ञानतपसा ज्ञानमेव तपः सर्वकर्मक्षयहेतुत्वात्।नहि ज्ञानेन सदृशं पवित्रमिह विद्यते इति हि वक्ष्यति तेन पूताः क्षीणसर्वपापाः सन्तो निरस्ताज्ञानतत्कार्यमलाः। मद्भावं मद्रूपत्वं विशुद्धसच्चिदानन्दघनं मोक्षमागताः अज्ञानमात्रापनयेन मोक्षं प्राप्ताः। ज्ञानतपसा पूता जीवन्मुक्ताः सन्तो मद्भावं मद्विषयं भावं रत्याख्यं प्रेमाणमागता इति वा।तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते इति हि वक्ष्यति।