Sbg 3.43 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha 3.43 इति व्यक्तः। पादद्वयस्थितस्यबुद्ध्वा इत्यादिक्रियाद्वयस्य कर्मद्वयं च भिन्नमेव स्वरसप्रतीतम्। अतस्तत्र द्वितीयान्तात्मशब्दो नियन्तव्यतया निर्दिष्टमनोविषयः। तृतीयान्तस्तु मनोनियमनकरणभूताध्यवसायविषयः।आहुः इति निर्देशस्तु नावश्यमुपनिषदभिप्रायेणइन्द्रियाणां हि चरतां तु सर्वेषां यद्येकं क्षरतीन्द्रियम्। तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् मनुः2।99 इत्याद्यनुसारेण मन्वादय आहुरित्यपि विवक्षोपपत्तेः। तस्मात्यो बुद्धेः परतस्तु सः इति काम एव निर्दिश्यते। तदेतदखिलमभिप्रेत्योक्तंतदिदमुच्यत इत्यारभ्यस काम इत्यर्थ इत्यन्तम्। ।।3.43।।सदृशं चेष्टते 3।33 इत्याद्युपक्रान्तज्ञानयोगसप्रमादतोपसंहारद्वारा मनसः कर्मयोगेऽवस्थापनमभिधायाध्यायार्थोऽप्युपसंह्रियते एवमिति श्लोकेन। कामविजयात्पूर्वं मनसः संस्तम्भनं नाम कर्मयोगे स्थापनमेव न पुनरत्यन्तवशीकृतत्वम् सति हि कामे मनसोऽपि क्षोभः स्यादिति पूर्वमेवोक्तमित्यभिप्रायेणकर्मयोगेऽवस्थाप्येत्युक्तम्।दुरासदं अननुष्ठितकर्मयोगैरनिरस्तपापैरगृहीतसुदृढसत्त्वकवचैः दोषदर्शनेऽप्यपाकर्तुमशक्यमित्यर्थः। अचेतनस्य कामस्य शत्रुत्वारोपेण हिंसनीयत्वोक्तिफलितं तु नाशनमेवेत्यभिप्रायेणप्रजहि 3।41जहि इत्यनयोर्नाशयेति व्याख्या।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषुश्रीमद्भगवद्गीतारामानुजभाष्यटीकायां तात्पर्यचन्द्रिकायां तृतीयोऽध्यायः।।3।।