Sbg 3.42 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।3.42।।न केवलं बाह्येन्द्रियजयनैव कृतार्थत्वं किंतु मनोबुद्ध्योरपि जयः कर्तव्यः कामस्य समूलोच्छेदाय। त्रिप्राकारदुर्गस्थस्य सामन्तस्येवाभ्यन्तरप्राकारद्वयजयेन। अतो मनोबुद्ध्योर्जयार्थं योगं दर्शयति इन्द्रियाणीति। अत्र परत्वं सूक्ष्मत्वेन कारणत्वेन वा बोध्यम्। इन्द्रियाणि चक्षुरादीनि पराणि स्वविषयेभ्यः पृथिव्यादिस्वाश्रयसहितेभ्यो गन्धादिभ्यो वित्तपुत्रशरीरेभ्यश्च तेषां तत्कारणत्वात्। तथा च कौषीतकिनः समामनन्ति ब्राह्मणेप्राणेभ्यो देवा देवेभ्यो लोकाः इति। व्युच्चरन्तीत्यनुषज्ज्यते। प्राणेभ्य इन्द्रियेभ्यो देवास्तदधिष्ठात्र्यो देवता उत्पद्यन्ते देवेभ्यश्च लोका भूतभौतिका उत्पद्यन्त इति श्रुत्यर्थः।इन्द्रियेभ्यः परं मनःमनसा ह्येव पश्यति मनसा शृणोति इति श्रुतेरिन्द्रियाणां मनोविकारत्वात्। तेन बाह्यार्थेभ्य इन्द्रियाण्याकृष्य मनसि प्रविलापनीयानीति दर्शितम्। केवलं परत्वमात्रप्रतिपादने प्रयोजनाभावात्मनसस्तु परा बुद्धिःतस्माद्वाएतस्मान्मनोमयात् अन्योन्तर आत्मा विज्ञानमयः इति श्रुतेः। मनसः प्रविलापनं तत्कारणे बुद्धौ कर्तव्यमित्यर्थः। समष्टिबुद्धेरप्यत्रैवान्तर्भावः।यो बुद्धेः परतस्तु सः। यस्तु। तु शब्दो भास्यवर्गाद्बुद्ध्यादेर्भासकस्य ज्ञानस्य वैलक्षण्यं गमयति। यो बुद्धेरपि परतः स ज्ञानपदाभिधेयः कामेन उल्बेन गर्भ इव आवृत इति व्यवहितेन संबन्धः। तथा च श्रुतिःयच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञानमात्मनि। ज्ञानमात्मनि महति तद्यच्छेच्छान्त आत्मनि इति। एतदुक्तं भवति वागादिबाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत। मनोऽपि विषयविकल्पाभिमुखं ज्ञानात्मशब्दोदितायां बुद्धौ धारयेत्। तामपि महत्यात्मनि समष्टिबुद्धौ धारयेत्। ततं तं महान्तमात्मानं शान्ते निष्कले परस्मिञ्जयोतिषि प्रत्यगात्मनि धारयेदिति।