Sbg 3.3 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।3.3।।एवमसङ्कीर्णरूपे वाक्ये बुभुत्सिते पूर्वोक्तस्यैवासङ्कीर्णरूपतां प्रकटयन् श्रीभगवानुवाच लोकेऽस्मिन्निति।मया प्रोक्ता इति निर्देशात्काक्वा च फलितमाह पूर्वोक्तमिति।अस्मिन् लोके इत्यस्य प्रकृतोपयोगितात्पर्यमाह विचित्राधिकारिसम्पूर्णे इति। तेन ज्ञानयोगकर्मयोगयोरधिकारिभेदसम्भवः परस्परविरुद्धानामपि धर्माणां प्रतिनियताधिकारिविषयत्वव्यवस्थापकवर्णाश्रमदेशकालकामनानिमित्तादिदृष्टान्तश्च सूचितः। अनघशब्देनाप्येतदेवाभिप्रेतम्। यथास्मिन् लोकेऽनघतया त्वमपवर्गसाधनेऽधिकरोषि इतरे तु काम्यादौ तद्वदनघमात्रस्य कर्मयोगेऽधिकारः अनघतराणां तु ज्ञानयोग इति संसारदाहज्वरचिकित्सकस्य सर्वज्ञस्य भिषजस्तत्तदवस्थोचितोऽयमुपदेशः।प्रोक्ता इत्यस्य सोपसर्गस्याभिप्रेतमाह यथाधिकारमिति। अधिकारानतिलङ्घनमत्र प्रकर्षः। द्वैविध्यमात्रस्य ज्ञातत्वात्तदुक्त्यभिप्रेतमाह असङ्कीर्णैवेति।मयेति तत्तदधिकारिभेदवेदिना तत्तद्धितकामेनास्पृष्टभ्रमविप्रलम्भप्रमादाशक्तिगन्धेनेत्यर्थः।
ज्यायसि ज्ञानयोगे तिष्ठति कर्मयोगः कथमाद्रियेत इत्यत्राह नहीति। मोक्षाभिलाषे जातेऽपि जन्मान्तरशतसुचरितमृदितकषायाणां केषाञ्चिदेव तदानीमेव ज्ञानयोगाधिकारः तथा दर्शनात् ततः शक्ताशक्तविषयतया ज्ञानकर्मयोगयोर्व्यवस्थेति भावः। नन्वशक्तानां कदाचिदपि ज्ञानयोगाधिकारो न स्यात् तच्छक्तिहेतुतयोक्तस्य कर्मयोगानुष्ठानस्य तत्प्रातिकूल्यचोद्यस्थितेरित्यत्राह अनभिसंहितेति। सर्वज्ञत्वसर्वशक्तित्वकारुण्यादिविशिष्टभगवदनुग्रहरूपादृष्टद्वारा ज्ञानहेतुत्वाय परमपुरुषाराधनरूपतोक्तिः। व्याकुलेन्द्रियत्वं हि ज्ञाननिष्ठाविरोधि तच्च स्वान्तमलमूलम् तदप्यनादिपुण्यपापरूपदुष्कर्ममूलरजस्तमोमयम् तच्च सत्त्वोन्मेषहेतुभूतैवंविधकर्मनिबर्हणीयम् अतो ज्ञाननिष्ठाहेतुभूतशान्तिहेतुत्वात्तदनुकूल एव कर्मयोग इत्युक्तं भवति। धर्मेण पापमपनुदति तै.ना.उ.6।50 इत्यादिकमिहाभिप्रेतम् अनभिसंहितफलत्वं पूर्वमेवोक्तमिति कृत्वा केवलपरमपुरुषाराधनवेषतायां कर्मणैव सिद्धिप्राप्तौ च वक्ष्यमाणं दर्शयति यत इति। प्रोक्तशब्दनिर्दिष्टं अव्यामिश्राभिधानं अनभिसंहितफलत्वोक्तिं च व्यनक्ति इहापीति।यदा ते मोहकलिलंश्रुतिविप्रतिपन्ना ते 2।5253 इत्याद्यर्थं स्मारयति विषयेति। आभिप्रायिकमवधारणं व्यञ्जयन्नुत्तरार्धं व्याचष्टे अतः साङ्ख्यानामेवेति। साङ्ख्यशब्दस्यात्र सिद्धान्तविशेषनिष्ठपरत्वं व्युदस्यति साङ्ख्यबुद्धिरित्यादिना। अतदर्हा इत्यशक्तिविषयत्वं सूचितम्।कर्मयोगाधिकारिण इति। योगिशब्दस्थो योगो ह्यत्र कर्मयोगः प्रत्ययार्थः सम्बन्धश्चात्र तद्योग्यतारूप इत्यर्थः। अतदर्हत्वं तदर्हत्वं च विशदयन् विरोधशङ्कापरिहारस्यफलितत्वेनाव्यामिश्राभिधानमुपसंहरति विषयेति।