Sbg 3.3 scjaya
Sanskrit Commentary By Sri Jayatritha ।।3.3।।एवं चेत्प्रश्नस्तर्हि कथं परिहारवाक्यं सङ्गच्छते तत्र निष्ठाद्वैविध्यकथनात् इत्यतस्तदभिप्रायं वदन् अवतारयति ज्यायस्त्वेऽपी ति। बुद्धिः काम्यकर्मणो ज्यायसीति यदुक्तं तत्तथैव तथापि त्वां तत्र वैकल्पिके युद्धादिकर्मणि प्रेरयामि कुतः आधिकारिकत्वात् त्वं कर्मण्यपि विक्षेपकारिण्यपि वैकल्पिकेऽधिकृत इति कृत्वा। अयमत्रोत्तरक्रमः आश्रमत्रयविहितानि यज्ञादीनि युद्धादीनि च न शुद्धकाम्यानि किन्तु कर्तुरिच्छया स्वर्गाद्यर्थानि ज्ञानाद्यर्थानि च भवन्ति अतो बुद्धेः काम्यकर्मणो जायस्त्वेऽपि युद्धस्य बुद्ध्यर्थत्वसम्भवात्तत्र नियोगो नानुपपन्नः। यतिधर्मान्विना किमेतेन नियोगेन इति चेत् अनधिकारिणामेव यत्याश्रमस्वीकाराधिकारः नाधिकारिकाणाम्। तैर्गृहस्थाद्याश्रममपरित्यज्यैव तद्विहितानि कर्माणि निष्कामतयाऽनुष्ठेयानीतीश्वरनियमात् तव चाधिकारिकत्वादिति।स्वराद्यन्तोपसृष्टाच्च इति कात्यायनवचनमनित्यम्। अत एव न पाणिनिरभाणीत्। अयमाशयःश्लोकात्कथं लभ्यते इत्यतो व्याचष्टे द्विविधा अपी ति। निष्ठा द्विविधेति व्याख्याने क्रमेणैकस्यैव पुरुषस्य तत्सम्भवान्नोक्तोऽभिप्रायो लभ्यत इत्येवं व्याख्यातम्। न केवलमेकविधाः साङ्ख्या एवेत्यपेरर्थः। द्वैविद्ध्यमेव सोदाहरणमाह गृहस्थादी ति। यत्याश्रमपरिग्रहेणेत्यपि ग्राह्यम्। ज्ञाननिष्ठाः यत्याश्रमविहितैरेव कर्मभिर्ज्ञानसाधनैर्युक्ताः सनकादिभिस्तुल्यं वर्तन्त इति सनकादिवत् । एवं जनकादिवदित्यपि। तत्स्था एव गृहस्थाद्याश्रमस्था एव तद्धर्मैर्युद्धादिभिर्ज्ञानसाधनैर्युक्ताः द्विविधा अपि जनाः सन्तीत्युक्ते कर्ममार्गस्था ज्ञानमार्गस्थाश्चेति द्वैविद्ध्यं प्रतीयते तन्निवृत्त्यर्थमाह मद्धर्मे ति। ज्ञानमार्गस्था एव ततश्च मद्धर्मस्था एवजना द्विविधा अपि सन्तीत्यन्वयः। तत्कथमित्याकाङ्क्षायामुत्तरं वाक्यद्वयम्। साङ्ख्यानां योगिना मिति पदद्वयमन्यथाप्रतीतिनिरासाय व्याचष्टे साङ्ख्यानामि ति। सम्यक् ख्यातिर्ज्ञानं सङ्ख्या तत्र भवाः साङ्ख्याः तेषां ज्ञानिनां ज्ञाननिष्ठानामित्यर्थः। ननु जनकादयोऽपि ज्ञाननिष्ठास्तत्कथं योगिन इत्यत आह ज्ञाननिष्ठा अपी ति। कर्मयोग्या गृहस्थादिकर्मयोग्याः। साङ्ख्ययोगशब्दौ प्रसिद्धार्थौ किं न स्यातामित्यतो मुक्तिवचनादिति भावेनाह निष्ठे ति स्थितिः स्वरूपेणेति शेषः। अस्त्वेवं श्लोकार्थः तथाप्याधिकारिकत्वादित्यादिकं अत्र न श्रूयत इत्यतोऽध्याहृत्याह त्वं त्वि ति। सकर्मा गृहस्थादिकर्मवान्। भवेदिदं व्याख्यानं यदि ते जनाः प्रमिताः स्युर्येषां ज्ञाननिष्ठानामपि गृहस्थादिकर्मस्वेवाधिकारः न यत्याश्रमकर्मसु। जनकादयस्तु यत्याश्रमं नानुष्ठितवन्त इत्येव प्रमितम् न तु तत्रानधिकार इति तत्राह सन्ति ही ति। विनिवेशितः कर्माधिकारो गृहस्थकर्माधिकारो यस्मिन्स तथोक्तः। प्रियव्रतो हि यत्याश्रमं स्वीचिकीर्षुराधिकारिकत्वयुक्त्या हिरण्यगर्भेण निवारित इत्यनेनोच्यते।