Sbg 3.3 scang
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Abhinavgupta ।।3.3।।श्रीभगवांस्तूत्तरं ददाति लोकेऽस्मिन् इति। लोके एषा द्वयी गतिः प्रसिद्धा सांख्यानां ज्ञानं प्रधानम् योगिनां च कर्मेति। मया तु सा एकैव निष्ठा उक्ता ज्ञानक्रियामयत्वात् संवित्तत्त्वस्येति भावः।