Sbg 3.37 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।3.37।।श्रीभगवानुवाच अस्य उद्भवाभिभवरूपेण वर्तमानगुणमयप्रकृतिसंसृष्टस्य प्रारब्धज्ञानयोगस्य रजोगुणसमुद्भवः प्राचीनवासनाजनितः शब्दादिविषयः अयं कामो महाशनः शत्रुः सर्वविषयेषु एनम् आकर्षति। एष एव प्रतिहतगतिः प्रतिहननहेतुभूतचेतनान् प्रति क्रोध रूपेण परिणतो महापाप्मा परहिंसादिषु प्रवर्तयति एनं रजोगुणसमुद्भवं सहजं ज्ञानयोगविरोधिनं वैरिणं विद्धि।