Sbg 3.29 scmad
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhavacharya ।।3.29।।प्रकृतेर्गुणेषु इन्द्रियादिषु सम्मूढाः। इन्द्रियाद्यभिमानाद्धि विषयादिषु सङ्गः। गुणकर्मसु विषयेषु कर्मसु चशब्दाद्या इन्द्रियाद्याश्च सत्त्वाद्याश्च शुभानि च। अप्रधानानि च गुणा निगद्यन्ते निरुक्तिगैः इत्यभिधानात्। सत्त्वाद्यङ्गीकारेगुणा गुणेषु 3।28 इत्ययुक्तं स्यात्।