Sbg 3.28 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।3.28।। गुणकर्मविभागयोः सत्त्वादिगुणविभागे तत्तत्कर्मविभागे च तत्त्ववित् गुणाः सत्त्वादयः स्वगुणेषु स्वेषु कार्येषु वर्तन्ते इति मत्वा गुणकर्मसु अहं कर्ता इति न सज्जते।