Sbg 3.27 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।3.27।।अविद्वान्कथं कर्मसु सज्जत इत्यत आह प्रकृतेरिति। प्रकृतेः पारमेश्वर्याः सत्वरजस्तमोगुणात्मिकायाःदेवात्मशक्तिं स्वगुणैर्निगूढाम् इति श्रुतिप्रसिद्धायाः शक्तेर्गुणैः कार्यकारणसंघातात्मकैः क्रियमाणानि कर्माणि अहंकारेण स्वस्मिन्नध्यस्तेन विमूढः तदीयान्कर्तृत्वादीनात्मधर्मत्वेन पश्यन् आत्मनश्चासङ्गानन्दसंविद्रूपतामपश्यन्नात्मा अहंकारेण विमूढश्चासावात्मा चेति विग्रहः। अहं कर्माणि करोमि कर्मणां कर्तेति मन्यते कर्त्रध्यासेन। कर्ताहमिति तृन्प्रत्ययस्तेननलोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीनिषेधः। अन्यथा तृच्प्रत्यये कर्मणां कर्ताहमिति षष्ठ्या भाव्यम्।