Sbg 3.1 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।3.1।।अथाष्टभिस्त्रयीधर्मो माहात्म्यज्ञानभक्तिकृत्। पार्थाय श्रीभगवता मर्यादा वचसोच्यते।।1।।
साङ्ख्ययोगौ निरूप्यादौ तृतीये धर्मनिर्णयः। त्यागात्यागविभेदेन त्यागादत्याग उत्तमः।।2।।
यावच्छरीरसम्बन्धं त्यागः कर्त्तुं न शक्यते। अतो भगवदाज्ञातस्तदर्थे कृतिरुत्तमा।।3।।
योगे कर्मपथे त्यागं साङ्खबुद्ध्युपसंहृतम्। जानन्ननिश्चयात्तत्र फाल्गुनः परिपृच्छति।।4।।यद्यपि पूर्वं भगवताएषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु 2।39 इत्यादौ योगबुद्धिरुपक्रान्ता तत्र च योगे स्वकर्मोपदिष्टं तथाप्यन्ते स्थिरधीप्रसङ्गे पुनस्त्यागमतिरेवोपसंहृतेति निर्णयमजानन् पृच्छति अर्जुन उवाच ज्यायसी चेदिति। कर्मणः सकाशात् बुद्धिस्तथा ज्यायस चेत् ते मता तर्हि घोरे कर्मणि युद्धे नियोजयसि किम् इति।