Sbg 3.1 scpur

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।3.1।।।।श्रीकृष्णाय नमः।।


योगसाङ्ख्यब्रह्मभावकर्माद्याः प्रश्नवाक्यतः।


ससंशयोऽब्रवीत् कृष्णं भक्तिप्राप्तीच्छुरर्जुनः।।एवं पूर्वाध्याये भगवता बुद्धियोगस्य कर्मण उत्तमत्वमुक्तमिति कर्मोपदेशः किमाशयः इति संशयाविष्टोऽर्जुन उवाच ज्यायसी चेदिति। हे जनार्दन सर्वाविद्यानाशक ते कर्मणः सकाशात् बुद्धिश्चेज्जायसी श्रेष्ठा मता सम्मता तदा मां घोरे अकरणप्रत्यवाये किञ्चिदपि कर्मलोपादिविफले कर्मणि किमिति नियोजयसि प्रवर्त्तयसि। केशवेतिसम्बोधनेन दुष्टगुणव्याप्तयोरपि मोक्षदातृत्वात्तथा कर्म कारयित्वाऽपि चेन्मोक्षं दातुमिच्छसि तदा कर्तव्यमेवेति भावो व्यञ्जितः।