Sbg 3.1 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।3.1।।पूर्वस्मिन्नध्यायेएषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श्रृणु इति द्वे बुद्धी प्रदर्श्यव्यवसायात्मिका बुद्धिः इति श्लोकेन सांख्यनिष्ठावतां पातशङ्का नास्ति कर्मयोगनिष्ठावतां तु सास्तीत्युक्तायावानर्थ उदपाने इति सांख्यनिष्ठायां सर्वकर्मफलान्तर्भावश्रवणात्तामेव प्रशमात्मिकां स्वाशयानुकूलां मन्वानोऽर्जुन उवाच ज्यायसीति। हे जनार्दन कर्मणो निष्कामकर्मयोगापेक्षया बुद्धिः सांख्यनिष्ठालक्षणं ज्ञानं ज्यायसी प्रशस्ततरा चेत्ते तव मता तत्तर्हि मां भैक्ष्यवृत्त्यापि तुष्यन्तं घोरे बन्धुवधाख्ये कर्मणि किं कुतो हेतोर्नियोजयसि पुनः पुनर्युध्यस्वेति वदन्।