Sbg 3.1 scjaya
Sanskrit Commentary By Sri Jayatritha ।।3.1।।श्रीव्यङ्कटेशाय नमः। पूर्वोत्तराध्यायेभ्योऽस्य भेदं स्वस्मिन्नेकतां च दर्शयन्नेतदध्यायप्रतिपाद्यमर्थं पूर्वाध्यायार्थसङ्गतत्वेन विवक्षुस्तत्प्रतिपाद्यं तावदाह आत्मे ति। जीवेश्वरस्वरूपं साङ्ख्याख्यमित्यर्थः। ज्ञानसाधनमात्मज्ञानसाधनं योगाख्यम्। पूर्वत्र पूर्वस्मिन्नध्याये। न चैवं द्वितीयस्याध्यायस्यैक्यानुपपत्तिः साधनस्यैव प्राचुर्यात् प्रचुरेण च व्यपदेशात्। तथा च सप्तमादौ वक्ष्यतिसाधनं प्राधान्येनोक्तमतीतैरध्यायैः इति।आत्मस्वरूपं इत्यादि तु प्रकरणभेदप्रदर्शनायोक्तमिति। एतत्सङ्गतत्वेन तृतीयाध्यायार्थमाह ज्ञाने ति। योगो द्विविधः कर्मसमाधिभेदात्। तत्र तावज्ज्ञानसाधनत्वेन कर्म विधीयते कर्तव्यमेवेति ज्ञाप्यते कैश्चन वाक्यैरकर्म कर्माकरणं विनिन्द्यास्मिन्नध्याये अकर्मनिन्दाऽपि कर्मविध्यर्थेत्येकार्थता। तथापि प्रकरणभेदार्थमेवमुक्तम्।ज्ञानसाधनत्वेन इति वदता मोक्षसाधनता निरस्ता। तेन प्रश्नप्रतिवचनापव्याख्यानमप्यपहस्तितम्। आनन्दवृद्ध्यर्थता त्वनुज्ञायत एव। बीजं प्रदर्शयन्प्रश्नवाक्यतात्पर्यमाह कर्मण इति। आदिपदेनकृपणाः फलहेतवः 2।49 इत्यादेर्ग्रहणम्। घोरे रागद्वेषाद्युपेते। अत्रोभयत्र कर्मशब्देन काम्यं कर्माभिप्रेतम्। निवृत्तधर्मान्निष्कामधर्मान् यत्याश्रमविहिताञ्च्छमदमादीन्। अत्र कर्मणि किमिति नियोजयसीत्येकः प्रश्नः घोर इति द्वितीय इत्यवधेयम्। इदमुक्तं भवति आश्रयमत्रयविहितानि यज्ञादीनि युद्धादीनि च कर्माणि काम्यान्येव सर्व एते पुण्यलोका भवन्ति छा.उ.2।23।2 इत्यादिफलश्रवणात्। तथाऽत्रापिहतो वा प्राप्स्यसि स्वर्गम् 2।37 इत्यादि। चतुर्थाश्रमविहितानि शमादीन्यकाम्यानि फलाश्रवणात् शान्तो दान्तः इत्युपक्रम्य आत्मानं पश्यति बृ.उ.4।4।23 इति ज्ञानार्थत्वश्रवणाच्च। ज्ञानं च काम्यात्कर्मणोऽत्युत्तममित्यभिहितम्। ततश्च काम्ये कर्मणि युद्धेयुद्ध्यस्व भारत 2।18 इति नियोजनमयुक्तं किन्तु चतुर्थाश्रमं स्वीकृत्य तद्धर्मनिष्ठो भवेति नियोक्तव्यम्। ननु युद्धमपिकर्मबन्धं प्रहास्यसि 2।39 इत्युक्तत्वाज्ज्ञानार्थं भवतीति मतम् तदा व्यामिश्रेण वाक्येन बुद्धिमोहनमेव आपद्यते। अथैवं मतम् युद्धादीनि कर्माणि काम्यान्यकाम्यानि च। तत्र यः सकामस्तं प्रतिहतो वा 2।37 इत्याद्युक्तम्। यः पुनर्ज्ञानार्थी तमुद्दिश्यकर्मण्येवाधिकारः 2।47 इत्युक्तम् तत्र का व्यामिश्रता इति। तथापि शुद्धेषु निवृत्तिलक्षणेषु यत्याश्रमधर्मेषु सत्सु वैकल्पिकेषु नियोजनमयुक्तमेव। तत्र मनोविक्षेपाभावात् अत्र तद्भावादिति। किञ्च कामक्रोधादीनां नरकफलत्वमुक्तम्। युद्धे च कामादयोऽवर्जनीयाः। ततोऽपि तत्र नियोजनमयुक्तम्। नन्वस्योत्तरंसुखदुःखे समे कृत्वा 2।38 इत्युक्तम् सत्यं तथापि रागादिप्रसक्तिहीनेषु शक्यानुष्ठानेषु यतिधर्मेषु सत्स्वशक्यानुष्ठाने युद्धे नियोजनमयुक्तमेवेति प्रथमश्लोके पदानां व्यवहितत्वादन्वयं दर्शयन् किञ्चिद्व्याचष्टे कर्मण इति। षष्ठीभ्रान्तिनिरासाय सकाशादित्युक्तम्। बुद्धिरात्मज्ञानम्। ज्यायसी प्रशस्ततरा।