Sbg 3.1 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।3.1।।पूर्वाध्याये उपायोपेयभूते कर्मनिष्ठा ज्ञाननिष्ठा चेति द्वे निष्ठे प्रोक्ते तत्र प्रजहातीत्यादिना एषा ब्राह्मीत्यन्तेन ज्ञाननिष्ठात्युत्तमेत्यभिहितं तदेव श्रुत्वार्जुनः फलभूतायां ज्ञाननिष्ठायामप्युत्कण्ठितः स्वस्यापि चित्तशुद्धिपुरःसरं ज्ञानाधिकारं मन्यमान उवाच ज्यायसीति। जनान्देवविपक्षभूतानर्दयति पीडयतीति जनार्दनः तं संबोधयन् ममासुरत्वाभावाद्वोरे कर्मणि प्रेरणेन पीडादातृत्वं तवानुचितमिति सूचयति। यदि निष्कामकर्मणः सकाशादपि बुद्धिर्ज्ञानं श्रेष्ठं तवाभिमतं तर्हि कस्माद्वारे हिंसाप्रधाने क्रूरे कर्मणि मां स्वभक्तं तस्माद्युध्यस्वेत्यादिना नियोजयसि प्रेरयसि। हे केशव कं ब्रह्मादिमनुकम्पार्थ गच्छतीति तथा संबोधयन्मामपि स्वभक्तं प्रति केशवो भव नतु जनार्दन इति द्योतयति।